SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H [भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ३ अध्ययनं [-], निर्युक्तिः [ ७२० ७२२] वि० भा० गाथा [-], भाष्यं [ १३७...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः आ.सू. ६० वसंपन्न जं कारणं तु तं कारणं अपूरंतो अहवा समाणिअम्मि सारणधा वा विसग्गो वा ॥ ७२० ॥ यत्कारणं यन्निमित्तमुपसम्पन्नः, तुशब्दादन्यत्सामाचार्यन्तर्गतं किमपि गृह्यते, तत्कारणं-वैयावृत्त्यादि अपूरयन्-अकुर्वन्, यदा वर्त्तते इत्यध्याहारः, तदा किमित्याह- 'सारणया वा विसग्गो वा' इति तदा तस्य सारणा-चोदना क्रियते, अविनीतस्य पुनर्विसर्गे वा परित्यागः क्रियते, तथा न अनापूरयन्नेव यदा वर्त्तते तदा सारणा वा विसर्गो वा, किन्तु 'अहवा समाणियम्मि' न्ति अथवा समाधिं नीते- परिसमाप्तिं नीतेऽभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-परिसमाप्तं, तद्यदि ऊर्ध्वमपि इच्छति ततो भव्यं, अथ नेच्छति गच्छति तस्य वा न साम्मत्यं ततो विसर्गो वेति, उक्ता संयतोपसम्पत् सम्प्रति गृहस्थोपसम्पदुच्यते, तत्रेयं साधूनां सामाचारी - सर्वत्रैवाध्वादिषु वृक्षाद्य घोऽप्यनुज्ञाप्य स्थातव्यं यत आहइत्तिरिअंपि न कप्पइ अधिदिनं खलु परुग्गहाईसु । चित्ति निसीहत्तुं तइ अवयरक्खणट्ठाए || ७२१ ॥ इत्वरमपि स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावग्रहादिषु, आदिशब्दः परावग्रहानेकभेदमख्यापकः, किं न कल्पते इत्याह-स्थातुं - कार्योत्सर्गे कर्त्तु, निपेतुम् उपवेष्टुं किमित्यत आह-'तइयवयरक्खणड्डाए' अदत्तादान विरत्याख्यतृतीयव्रतरक्षणार्थे, तस्मात् भिक्षाटनादावपि व्याघातसम्भवे क्वचित्स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं, तदभावे देवतां यस्याः सोऽवग्रह इति ॥ उका दशविधा सामाचारी | साम्प्रतमुपसंहरन्नाह एवं सामाघारी कहिआ दसहा समासओ एसा । संजमतवहुगाणं निग्गंधाणं महरिसीणं ॥ ७२२ ॥ For Pevato & Personal Use Only ~132~ bryg
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy