SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-4] "आवश्यक"- मूलसूत्र अध्ययनं , नियुक्ति: [१८४], विभा गाथा , भाष्यं [३...], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति: *** * प्रत ** सूत्रांक * दिव्यतुटितानि-दिबतूर्याणि च तेषां शब्दाः सर्वदिव्यतुटितशब्दास्तेषां एकत्र मीलनेन य सङ्गतो नितरां नादोमहान् घोषः सर्वदिन्यतुटितशब्दसन्निनादस्तेन, 'ताए उक्किट्ठाएं' इत्यादि तया देवजनप्रतिद्धया उत्कृष्टया-प्रशस्तया शीघ्रसश्चरणात् त्वरितया-शीघ्रतरमेव तया प्रदेशान्तरक्रमणात् घपलेव चपला तया-क्रोधाविष्टस्येव श्रमासंवेदनात् पण्डेव चण्डा तया शीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्भुतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्धृता तया, इत्थंभूतया दिव्यया देवगत्या 'आयाहिणं पयाहिणं करेंति' आ सर्वतः समन्तात् परिभ्रमतां दक्षिणमेव जन्मभवनं यथा भवति, एवं प्रदक्षिणं कुर्वन्ति, 'करयलपरिग्गहिय'मित्यादि द्वयोहस्तयोरन्योऽन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां, कथंभूतामित्याह करतलाभ्यां परिगहीता-निष्पादिता करतलपरिगृहीता तां, तथा आवर्तनमावः शिरस्यावों यस्यां सा शिरस्यावा 'कण्ठेकाल उरसिलोमे'त्यादिवत् अलुक्समासः तामत एव मस्तके कृत्वा नमोऽस्तु ते-तुभ्यं रत्तं भगवलक्षणं कुक्षौ धारयतीति रत्नकुक्षिधारिका तस्याः सम्बोधनं रत्न कुक्षिधारिके, जगतः प्रदीप इव जगत्प्रदीपस्तदायिके, चक्षुरिव चक्षुः, चक्षुभांवचक्षुरित्यर्थः तस्येदं भगवद्विशेषणं, भावचक्षुः किल विवेकरूपममूर्त भवति भगवांश्च साक्षान्मूर्त इत्यत आह-मूर्तस्य, तथा सर्वजगजीववत्सलस्य 'छज्जीवहियं जिणा वतीति वचनात् , तथा हितकर्येव हितकरिका मार्गदेशिका च या बागृद्धिःवाक्सम्पद्, पुनः कथम्भूतेत्यत आह-विभुः-व्यापिका सर्वस्वस्वभाषानुगमनेन परिणमनात् तस्याः प्रभुः-स्वामी हितकरमार्गदेशकवागृद्धिविभुप्रभुस्तस्य, पुंवदावः समासस्य कर्मधारयत्वात्, विभुशब्दस्य परनिपातः प्राकृतत्वात् , जिनस्य दीप अनुक्रम ***** 4OCACANCC+% * * ForFive Persanamory * vsannlinrary.org. ~64~
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy