SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-२ अध्ययनं , नियुक्ति: [४५९-४६०], वि०भा०गाथा H, भाष्यं [७८-८०], मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम COCACIReec पियदसणं धूयं तत्र जनितवानित्यर्थः, गतमपत्यद्वारम् । एवं भगवान् वर्धमानोऽष्टाविंशतिवर्षों जातः, अत्रान्तरे | भगवतो मातापितरौ कालगतौ, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिर्नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति | सम, स पुनराह-भगवन् ! मा क्षारं क्षते निक्षिप, कियन्तमपि कालं प्रतीक्षस्व, भगवानाह-कियन्त , स्वजन। आह-वर्षद्वयं, भगवानाह-यद्येवं तर्हि भोजनादौ मम ब्यापारो न वोढव्यः, एवं प्रतिपन्ने समधिकं वर्षद्वयं प्रासुकैपणीयाहारः शीतोदकमप्यपिवन तस्थौ, न च प्राशुकेनापि जलेन सर्वस्नानं कृतवान्, केवलं लोकस्थित्या हस्तपादमुखमात्रप्रक्षालनं प्राशुकेन जलेन चकार, निष्क्रमणमहोत्सवे तु सचित्तोदकेन स्नातवान, ब्रह्मचर्य च सुविशुद्धं ततः प्रभृति यावज्जीवं परिपालितवान् , इह यदा भगवान् जातस्तदैवं लोके प्रसिद्धिरभूत् , यथा-एष चतुर्दशस्वमसूचितो जात इति चक्रवती भविष्यति, तत. एनां प्रसिद्धिमाकर्ण्य स्वस्वमातापितरैः श्रेणिकचण्डप्रद्योतादयो भगवत्पर्युपासनाय कुमारभूपाः प्रेषिताः, सम्प्रति तु भगवति घोरानुष्ठानमनुष्ठातुं प्रवृत्ते न एप चक्रवर्ती भविष्यतीति स्वं स्वं स्थान प्रति गताः, भगवानपि तथा तिष्ठन् संवत्सरातिकमे महादानं दत्तवान् , लोकान्तिकैश्च प्रतिवोधितः, ततः पूणा-13 दावधिः प्रबजितः ॥ अमुमेवार्थ लेशतः प्रतिपादयति नियुक्तिकृत् हत्थुत्तरजोगेणं कुंडग्गामंमि खत्तिओ जचो । बजरिसभसंघयणो भवियजणवियोहतो वीरो ॥ ४५१ ।। सो देवपरिग्गहिओ तीसं वासाई चसइ गिहवासे । अम्मापिईहिं भगवं देवत्तगएहिं पवइतो ॥ ४६० ॥ हस्बोचरायोगेन-उच्चराफाल्गुनीयोगेन कुंडनगरमामे जात्या-उत्कृष्टः क्षत्रियो बज्रर्पभसंहननो भव्यजनविवोधको --*-5-%20-25% Jan Een ~250
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy