SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+वृत्तिः) २ अध्ययनं [-], निर्युक्ति: [ ३५७-३५९ ], वि० भा० गाथा [-], भाष्यं [ ३७...], मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः Jan Education International गाथागमनिका - व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्थं यतः अतो मोहाच्छादितस्य छत्रके भवतु, अनुपानत्काश्च श्रमणाः मम चोपानहौ भवत इति गाथार्थः ॥ तथा- सुकंवरा य समणा निरंबरा मज्झ धाउरत्ताहं । हुंतु हमे वत्थाई अरिहो मि कसायकलुसमई ॥ ३५७ ।। गाथागमनिका - शुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं येषां ते निरम्बराः-जिन कल्पिकादयः, 'मज्झति मम च एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि, किमिति १, अर्होऽस्मि योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कपायक लुपमतिरिति गाथार्थः ॥ ववभीरू बहुजीवसमाउलं जलारंभं । होउ मम परिमिएणं जलेण पहाणं च पिअणं च ॥ ३५८ ॥ गाथागमनिका - वर्जयन्त्यवद्यभीरवो बहुजीवसमाकुलं जलारम्भं तत्रैव वनस्पतेरवस्थानात्, अवधं पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः ॥ एवं सोरुमईनिअगमविगप्पिअं इमं लिंगं । तद्विअहेउसुजुत्तं पारिवज्जं तओ कासी ॥ ३५९ ॥ स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितम्, इदं लिङ्गं विशिष्टं, तस्य हितास्तद्धिताः तद्धिताश्च हेतवश्चेति समासः तैः सुष्ठु युक्तं श्लिष्टमित्यर्थः परिब्राजानामिदं पारिव्राजं प्रवर्धयति, शास्त्रकारवचनात् वर्त्तमाननिर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा 'पारिवज्जं ततो कासित्ति पारिव्राजं ततः कृतवानिति गायार्थः ॥ भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकालोकः पृष्टवान्, तथा चाह For Pevoce & Personal Use Ony ~ 198~
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy