________________
आगम
(४०)
[भाग-4] "आवश्यक"- मूलसूत्र अध्ययनं H, नियुक्ति: [३४१-३४३], वि०भा गाथा H], भाष्यं [४...], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
कतारं 'अहं' मित्यात्मनिर्देशः, अदृष्ट्वा भगवन्त धर्मचक्रं तु चकारेत्यादिगाथाषट्वाक्षरार्थः । महाब्रतानि पञ्च प्रज्ञापय | तीत्युक्तं, तानि तु त्रिदशकृतसमवसरणावस्थित एव, तथा चाह
उप्पन्नमि अणते नाणे जरमरणविप्पमुक्कस्स । तो देवदाणविन्दा करिति महिमं जिणिदस्स ।। ३४१॥ | गमनिका-उत्पने-घातिकर्मचतुष्टयक्षयजाते सञ्जाते अनन्ते ज्ञाने, केवल इत्यर्थः, जरा-बयोहानिलक्षणा मरणंप्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुक्तवद्विप्रमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमांज्ञानपूजां जिनवरेन्द्रस्य, देवेन्द्रग्रहणात् वैमानिकज्योतिष्कपरिग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरग्रहणं, सर्वतीर्थकराणां च देवाः अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इब राजन्त्य उपलभ्य धृता इति गाथाक्षरार्थः ॥ (ग्रंथानं ९०००) इदानीमुक्तानुक्तार्थसङ्ग्रहपरां सहगाधामाहउजाणपुरिमताले पुरी विणीआइ तत्थ नाणवरं । चक्कप्पया य भरहे निवेअणं चेव दुण्डंपि ॥ ३४२ ॥
गमनिका-उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन् , पुर्या विनीतायां, तत्र ज्ञानवरं भगवत उत्पन्नमिति | वाक्यशेषः, तथा तस्मिन्नेवाहनि भरतनृपतेरायुधशालायां चकोत्पादश्च वभूव, 'भरहे निवेयणं चेव दोण्हंपित्ति भरताय निवेदनं च द्वयोरपि-ज्ञानरत्नचक्ररत्नयोः तन्नियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः, अत्रान्तरे भरतश्चिन्तयामास-पूजा तावद् द्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते , किं चक्ररतस्य उत तावस्येति, तत्र- .
तायम्मि पूइए चक पूह एअणारिहो ताओ । इहलोइअं तु चकं परलोअसुहावहो ताओ ॥ ३४३ ॥
दीप अनुक्रम
.
ForFive Persanamory
iwsanelibrary.com
... भगवन्त ऋषभस्य केवलज्ञानोत्पत्ति एवं मरुदेवा-माताया: मोक्ष-गमनं
~188