________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २
अध्ययनं [-], निर्युक्तिः [ ३३४-३३५], वि० भा०गाथा [-] भाष्यं [४...], मूलं [- /गाथा - ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः
उपोद्घातनिर्वृतिः
॥२९४॥
Jan Education Ire
वीरो भगवान् एकः - एकाकी सन् निर्वृतः त्रयस्त्रिंशता साधुभिः सह निर्वृतः पार्श्वनाथः पञ्चभिः शतैः षट्त्रिंशैःपत्रिंशदधिकैः सह सिद्धिं गतो नेमिः --अरिष्टनेमिः पञ्चभिः श्रमणशतैः सह परिवृतो मल्लिस्वामी नवभिः शतैः परिवृतः शान्तिनाथः अष्टभिः शतैर्द्धर्म्मः पङ्गिः शतैर्वासुपूज्यजिनः सिद्धिं गतः, अनन्तजितो जिनस्य निर्वाणं गच्छतः सप्त सहस्राणि परिवारः, विमलनाथस्य षट् सहस्राणि पञ्च शतानि सुपार्श्वस्य पद्मप्रभस्य त्रीणि अष्टोत्तराणि शतानि दशभिः सहस्रैः परिवृत ऋषभस्वामी निर्वाणमगच्छत् शेषास्तु-अजितस्वामिप्रभृतय उक्तव्यतिरिक्ताः प्रत्येकं सहस्रपरिवृता सिद्धाः, कस्मिन् काले दिवसादौ आदिशब्दात् कस्मिन्नक्षत्रे ते भगवन्तः सिद्धा इत्यादि यक्ष भणितं तत्सर्वं प्रथमानुयोगतो ज्ञेयम् ॥
इश्चैवमाइ सर्व जिणाण पढमाणुओगतो नेयं । ठाणासुन्नत्थं पुण भणियं पगयं अतो वोच्छं ॥ ३३४ ॥ इत्येवमादि निर्वाणक्रियापरिवारपरिमाणकालकथनयुगान्तकर भूमिप्रभृतिकं सर्वे जिनानां तीर्थकृतां प्रथमानुयोगतो ज्ञेयम्, इह पुनर्यद् भणितं तत्स्थानाशून्यार्थमतो न कश्चिद्दोषः ॥ अत ऊ पुनः प्रकृतं वक्ष्ये किं तत्प्रकृतमित्यत आहउसभजिणसमुत्थाणं उत्थाणं जं ततो मिरीयस्स । सामाइयस्स एसो जं पुषं निग्गमोऽहिगतो ॥ ३३५ ॥ ऋषभजिनसमुत्थानं प्रकृतं यद् - यस्मात् ततः - ऋषभजिनान्मरीचेरुत्थानं, तदपि मरीचेरुत्थानं प्रकृतं यद्-यस्मादेव निर्गमोऽधिकृतः सामायिकस्य, स च परम्परया मरीचेरिति ॥ तत्र विनीताया नगर्या दूरस्थिता जना विनीतावास्तव्यान् जनान् कलासु विशारदानुपलभ्यैवमूचुः - अहो कुशला अमी जनाः, ततः कुशलपुरुषंयोगात् विनीता नगरी कुशले त्युच्यते, तस्याश्चाधिपतिर्भगवान् ततः 'तत्र भव' इति विवक्षायामध्यात्मादीकण्प्रत्यये भगवान् कौशलिक उच्यते ।
For Pavoce & Personal Use Ony
~ 159~
जिनानां
निर्वाणत
पआदि
गा. ३२८. ३५
॥२१४॥