________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
[-]
[भाग-4] "आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २
अध्ययनं [-],
निर्युक्तिः [ ३२२-३२३], वि० भा० गाथा [-] भाष्यं [४...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः
Jan Education
चतुर्ष्वपि स्थानेषु कुमारत्वमण्डलित्वचक्रवर्त्तिपनतपर्यायरूपेषु प्रत्येकमेकविंशतिर्वर्षाणां सहस्राणि भवन्ति ज्ञातव्यानि । मल्लिनाथस्यापि गृहवासे वर्षशतं, शेषं तु सर्वमायुर्ब्रतपर्यायः, तत्क्रियादिति चेत् अत आह—- चतुष्पञ्चाशद्वर्षाणां सहस्राणि नव च परिपूर्णानि शतानि । अर्द्धष्टमानि वर्षाणां सहस्राणि कुमारवासः सुव्रतजिनस्य, तावदेव अर्द्धाष्टमान्येव वर्षसहस्राणि पर्यायो - व्रतपर्यायः, पञ्चदश वर्षसहस्राणि राज्ये । नमेर्भगवतः कुमारवासो द्वे वर्षसहस्रे अर्द्ध च पञ्च वर्षशतानीत्यर्थः, तावत्कं - अर्द्धतृतीयान्येव वर्षसहस्राणि व्रतपर्यायः, पञ्च वर्षसहस्राणि राज्ये । अरिष्ठनेमेस्त्रीणि वर्षशतानि कुमारवासः, राज्यानभ्युपगमात् राज्यपर्यायाभावः, सप्त वर्षशतानि भवति श्रामण्यः पर्यायः । पार्श्वनाथस्य कुमारत्वं त्रिंशद्वर्षाणि, व्रतपर्यायः पुनर्भवति सप्ततिर्वर्षाणि वर्द्धमाने - वर्द्धमानस्वामिनो गृहवासस्त्रिंशद्वर्षाणि, व्रतपर्यायः द्विचत्वारिंशद्वर्षाणि ॥ सम्प्रति केवलिपर्यायो वक्तव्यः, स च श्रामण्यपर्यायात् छद्मस्थ पर्यायापगमे स्वयमेव ज्ञेय इति पूर्वोकमेव श्रमण्यपर्याय स्मारयति-
उसमस्त पुचलक्खं पुर्वगुणमजियस्स तं चैव । चउरंगूणं लक्खं पुणो पुणो जाव सुविहिति ॥ ३२२ ॥ अस्या व्याख्या पूर्ववत्,
सेसाणं परियातो कुमारवासेण सहियतो भणितो । पत्तेयंपिय पुढं सीसाणमगुग्गहट्ठाए ॥ ३२३ ॥ शेषाणां - शीतलस्वामिप्रभृतीनां पर्यायः पूर्व कुमारवासेन सह भणितः, प्रत्येकमपि च, किमर्थमुभयथापि भणित इति चेत् अत आह— शिष्याणामनुग्रहाय यतो मन्दमतीनामपि शिष्याणां बुद्धौ सम्यक् प्रतिस्फलति ॥
For Peace & Personal Use Only
~ 156 ~