SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] [भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) २ अध्ययनं [-], निर्युक्तिः [२५८-२५९], वि० भा० गाथा [-] भाष्यं [४...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः उदिताः परीषदाः शीतोष्णादयः एषां भगवतां तीर्थकृतां, परं ते परीषदाः सर्वैरपि जिनवरेन्द्रः पराजिताः । गतं | परीषहद्वारम् ॥ अधुना जीवोपलम्भद्वारमाह - 'नव जीवाई' इत्यादि, नव जीवादीन् सादिशब्दादजीवास्रवबन्धसंवरपुण्यपापनिर्जरामोक्षपरिग्रहः पदार्थानुपलभ्य सर्वे निष्क्रान्ताः ॥ गतं जीवोपलम्भद्वारम् इदानीं श्रुतलाभादिद्वाराणि प्रतिपादयति पदमस्स बारसंग सेसाणिकारसंग सुयलंभो । पंच जमा पढमंतिम जिणाण सेसाण चत्तारि ॥ २५८ ॥ पचक्खाणमिणं संजमो य पढमंतिमाण दुविगप्पो । सेसाणं सामइतो सत्तरसंगो अ सबेसिं ॥ २५९ ॥ प्रथमस्य -- भगवत ऋषभस्वामिनः पूर्वभवे श्रुतलाभः परिपूर्ण द्वादशाङ्गम्, अवशेषाणाम् - अजितस्वामिप्रभृतीनामेका| दशाङ्गानि यस्य च यावान् पूर्वभवे श्रुतलाभः तस्य तावान् तीर्थकरजन्मन्यपि अनुवर्त्तते, गतं श्रुतलाभद्वारम् ॥ अधुना प्रत्याख्यानद्वारमाह-प्रथमजिनस्य - ऋषभस्वामिनोऽन्तिमजिनस्य - वर्द्धमानस्वामिन इदं प्रत्याख्यानं, यदुत पञ्च यमाः- प्राणातिपातनिवृत्त्यादीनि पञ्च महानतानि, शेषाणाम्- अजितस्वामिप्रभृतीनां मध्यमानां द्वाविंशतितीर्थ कृतां चत्वारो यमाः, मैथुन शतवर्षाणि शेषाणि चत्वारि महाव्रतानीत्यर्थः तेषां मैथुनस्य परिग्रहेऽन्तर्भावविवक्षणात्, नापरिगृहीता स्त्री परिमुज्यते इति न्यायात्, संयमोऽपि सामायिकादिरूपः प्रथमान्तिमजिनयोद्विबिकल्पः, इत्वरं सामायिकं डेदोपस्थापनीयं चेत्यर्थः, शेषाणां मध्यमानां द्वाविंशतितीर्थकृतां यावत्कधिकमेवैकं सामायिकं, न शेषं छेदोपस्थापनादि, तथाकल्पत्वात्, सष्ठदशाङ्गः - सप्तदशमेदः पुनः चः पुनरर्थे, सर्वेषां तीर्थकृतामभूत्, ते च सप्तदश मेदा अमी Jan Education International Far Pavoce & Personal Use Only ~ 142~ www.sanlibrary.on
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy