SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-4] “आवश्यक- मूलसूत्र अध्ययनं , नियुक्ति: [२०३-२०६], वि०भा गाथा , भाष्यं [४...], मूलं [- /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनियुक्ति एवंमलयगिरिसूरिरचिता वृत्तिः प्रत सत्राक **** पोदात घर्षित्वा त्वचं चापनीय भुक्तवन्त इति, एवमपि कालदोषात् कियत्यपि काले गते ता अपि न जीर्णवन्तः, ततः पुनरपिहा भगवन्तमापृच्छय तदुपदेशात्तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमितान् तन्दुलान् प्रवालपुटे-पत्रपुटे मुहूर्त धृत्वाला ॥१९॥ है। मुञ्जत इत्येवंशीलास्तीमिततन्दुलप्रवालपुटभोजिनः, तन्दुलग्रहणमशेषौषध्युपलक्षणम् , एवमपि कियति काले अतिक्रान्ते ।। शाल्याद्यौषधयः कठिनभावतो न जीर्यन्तीति भूयोऽपि भगवन्तं पृष्ट्वा तदुपदेशेन हस्ततलपुटाहारा आसीरन् , हस्त. तलपुटेषु निहित आहारो यैस्ते तथाविधाः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वा भुक्तवन्त इत्यर्थः, एवमपि गच्छता कालेन कालदोषात् औषध्यः कठिनतरभावमापन्ना न जीर्यन्ति, ततो भगवदुपदेशेन कक्षामु स्वेदयित्वा भुक्तवन्तः, एतच्चानुक्तमपि व्याख्यानादवसीयते, तथा मूलटीकाकृता व्याख्यानाद्, एवंभूताश्च ते मिथुनका आसन् कायदा ऋषभः कुलकरस्तदेति, तदनन्तरमभिहितप्रकारबादिसंयोगैराहारितवन्तः,तद्यथा-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त तीमित्वा, तथा हस्ताभ्यां घृष्टा हस्तपुटेषु च मुहूर्त धृत्वा, तथा हस्ताभ्यां घृष्ट्वा कक्षास्वेदं च कृत्वा, एते त्रयो भङ्गका द्विकसंयोगे, परिघृष्टपदं मुक्त्वा तीमित्वा हस्तपुटेषु च मुहूर्त घृत्वा इत्यादिकामपि भङ्गयोजनामुपदर्शयन्ति केचित, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटे कृतस्य सौकुमार्यानुपपत्तेः, यदिवा श्लक्ष्णत्वग्भावाददोष इति, विकर्सयोगेऽपि बयो भङ्गा हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु मुहूर्ते घृत्वा १ हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा ६ कक्षासु स्वेदयित्वा २ तथा हस्ताभ्यां वृष्ट्वा हस्तपुटेषु घृत्या कक्षासु खेदयित्वा ३ इति, यस्तु घृष्टपदं विहाय पत्रपुटेषु ** दीप अनुक्रम हा॥१९६॥ *** Jan Education ForFive Permaneumory wsanelitrary.orm ~1237
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy