SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] [भाग-4] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+वृत्तिः) २ अध्ययनं [-], निर्युक्तिः [१९५], वि० भा० गाथा [-], भाष्यं [४...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[४०] मूलसूत्र[१]आवश्यकनिर्युक्ति एवंमलयगिरिसूरिरचिता वृत्तिः उपोटातनिर्युक्तिः ॥१९४॥ Jan Education क्रमणीयाज्ञश्च भवति, एवं भगवता शिष्टे कथिते सति ते मिथुनका बुवते अस्माकमपि सः - राजा भवतु, वर्तमानका | उनिर्देशः खल्वन्यास्वप्यवसर्पिणीषु प्राय एष एव न्याय इति प्रदर्शनार्थः, सूत्रस्य त्रिकालगोचरत्वात्, अथवा प्राकृतत्वादापत्वाद्वा 'वेति'त्ति उक्तवन्तः, भगवानाह यद्येवं 'मग्गह य कुलगरं' ति मार्गयत-याचध्वं कुलकरं- नाभिकुलकरं राजानं ततस्तैर्याचितो नाभिकुलकरो, राजानं याचितश्च सन् स 'ब्रूते' उक्तवान् अहं महान् जातः ऋषभो भवतां राजेति, ततस्ते मिथुनका राज्याभिषेककरणार्थ उदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तरे देवराजस्य वज्रपाणे| रासनप्रकम्पो वभूव, ततोऽवधिना विज्ञाय सर्व सलोकपालः शक्रः समागत्य राज्याभिषेकं कृतवान् ॥ अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्नाह - आभोएड सको उवागतो तस्स कुणइ अभिसेयं । मउडाइ अलंकारं नरिंदजोगं च से कुणइ ॥ १९६ ॥ आसनप्रकम्पानन्तरं आभोग्य-अवधिज्ञानेन सम्यग्वस्तुगतिमवगम्य शक्रो- देवराज उपागतस्तस्य- भगवतः ऋषभस्वामिनोऽमिषेकं - राज्याभिषेकं करोति, तथा मुकुटादि आदिशब्दात् कटककुण्डल केयूरादिपरिग्रहः नरेन्द्रयोग्यं नरेश्वरपदव्युचितमलङ्कारं 'से' तस्य भगवतः करोति, अत्रापि वर्त्तमानकालनिर्देशप्रयोजनं प्राग्वद् भावनीयं, पाठान्तरं वा “आभोएडं सको उवागतो तस्त कासि अभिसेयं । मउडाइ अलंकारं नरिंदजोगं च से कासि ॥" अत्रान्तरे ते मिथुनकपुरुषाः पद्मिनीसरसः खलु पद्मिनी पत्रैरुदकमादाय भगवतः समीपमागत्य भगवन्तं चालङ्कृतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्त्तव्यताव्याकुड़ीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोस्तदुदकं निक्षिष्ठत्रन्तः, ततस्तानेवं For Peace & Personal Use Only 119~ राज्यद्वार ॥ १९४॥ vanelibrary.org
SR No.035064
Book TitleSavruttik Aagam Sootraani 2 04 Aavashyak Niryukti evam Vrutti Aagam 40 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy