________________
आगम
(०५)
प्रत
सूत्रांक
[४३७
४६८]
गाथा
दीप
अनुक्रम [५२९
•५६२]
श्रीभगः
लघुवृत्तौ
NG TO OCCHIK | K
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [१२], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४३७-४६८] + गाथा
गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमकाले जीवपरिणामस्य पश्ञ्चवर्णादित्वं ज्ञेयमिति । गर्भजजीववर्णादिविचित्र परिणाम उक्तः, अथ जीवस्यैव चित्रपरिणामत्वं यत् स्यात्तदाह- 'कम्मओ णं'ति (सू. ४५१) कर्म्मणः सकाशात्, नो अकर्म्मतः न कर्माणि विना, जीवो विभक्तिभावं विभागरूपं भावं नारकतिर्यङ्मनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः परिणमति-गच्छति, तथा 'कम्मओ णं जयति गच्छति तांस्तान्नारकामरादिभावानिति जगत्-जीवसमूहः, जीवद्रव्यस्य वा विशेषो जङ्गमाभिधानः 'जगन्ति जङ्गमान्याहु' रिति वचनात् ॥ द्वादशशते पञ्चमः ॥
'मिच्छे से एवमाहंसु'त्ति (सू. ४५२) इह तद्वचनाप्रमाणकत्वात् मिथ्यात्वं मिध्यादृष्टिप्रवचनसंस्कारोपनीतत्वाच्च, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं न च विमानयोग्रसिकग्रसनीयभावसम्भवोऽस्ति, आश्रयमात्रत्वात् नरभवनानामिव, अथेदं गृहमनेन ग्रस्तमिति दृष्टस्तद्व्यवहारः, सत्यं स खल्वाच्छाद्याच्छादकभावे सति नान्यथा, आच्छाद्याच्छादनभावे च ग्रासविवक्षायामिहापि न विरोधः, अथ यदत्र सम्यक् तद्दर्शनायाह-'अहं पुणे 'ति खंजनं दीपमल्लिकामलः तद्वर्णाभं, 'लाउयं'ति तुम्बकं तचेहा पक्वावस्थं ग्राह्यमिति 'भासरासि'ति भस्मराशिसमं, 'आगच्छमाणे वत्ति गत्वा प्रतिचारेण ततः प्रतिनिवर्त्तमानः, कृष्णवर्णादिना विमानेनेति शेषः, 'गच्छमाणे व 'त्ति स्वभावचारेण चरन्, एतेन पदद्वयेन स्वाभाविकी गतिरुक्ता, 'बिउब्वमाणे'त्ति विकुर्वणां कुर्वन् 'परियारे'ति परिचारयन् कामक्रीडां कुर्वन्, एतेन पदद्वयेन अतित्वरया वर्त्तमानो विसंस्थलचेष्टया स्वविमानमसमञ्जसं चालयति एतच द्वय|मस्वाभाविकविमानगतिग्रहणायोक्तमिति, 'चंदलेसं पुरच्छिमेणं' ति स्वविमानेन चन्द्र विमानावरणे चन्द्रदीप्तेरावृतत्वाचन्द्रलेश्यां | पुरस्तादावृत्य 'पञ्चच्छिमेणं बीईवयति'ति चन्द्रापेक्षया अपरेण यातीत्यर्थः, 'पुरच्छि मेणं चंदे उवदंसेइ'त्ति 'पथत्थिमेणं
११२ शु०
५-६ उ.
~82~
॥ १८४॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः