________________
आगम
"भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-२ शतक [१२], वर्ग H, अंतर्-शतक H, उद्देशक [१-१०], मूलं [४३७-४६८] + गाथा
(०५)
प्रत
श्रीभग०
सूत्रांक
४ उद्देशः
[४३७४६८]
नामेव तदणूनां ग्रहणं स्यादतोऽभिधीयते-अनन्तगुणोऽसाविति, तत औदारिकपुद्गलपरिवर्तननिर्वर्तनाकालोऽनन्तगुणः, यत १२ श०
औदारिकपुद्गला अतिस्थूराः, स्थूराणां चाल्पानामेबैकदा ग्रहणं स्यात् , अल्पतरप्रदेशाचैते, ततस्तद्ग्रहणेऽप्येकदा अल्प एवाणवो | गृह्यन्ते, न च कार्मणतैजसपुद्गलवत्तेषां सर्वपदेषु ग्रहणमस्त्यौदारिकशरीरिणामेव तद्ग्रहणादतो बृहतैव कालेन तेषां ग्रहणमिति, तत आनप्राणपुद्गलपरावर्तनाकालोऽनन्तगुणः, यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलास्सूक्ष्मा बहुप्रदेशिकाश्चेति तेषामल्पकालेन ग्रहणं सम्भवति तथाप्यपर्याप्तकावस्थायां तेषामग्रहणात् पर्याप्तकावस्थायामप्यौदारिकशरीरपुद्गलापेक्षया तेषामल्पी| यसामेव ग्रहणात् न शीघं तद्ग्रहणमित्यौदारिकपुद्गलपरावर्त्तनिर्वर्तनाकालादनन्तगुणता आनप्राणपुद्गलपरावर्तनिर्वर्तनाकाल|स्येति, ततो मनःपुद्गलपरावर्त्तनिर्धर्तनाकालोऽनन्तगुणः, कथं , यद्यप्यानप्राणपुद्गलेभ्यो मनपुद्गलाः सूक्ष्मा बहुप्रदेशाश्चेत्यल्पकालेन तेषां ग्रहणं स्यात् तथाप्येकेन्द्रियादिकायस्थितिवशान् मनसश्चिरेण लाभात् मानसपुद्गलपरिवर्तों बहुकालसाध्य इत्यनन्तगुणः, ततोऽपि वाकपुद्गलपरावर्तनिवर्त्तनाकालोऽनन्तगुणः, कथं ?, यद्यपि मनसः सकाशात् भाषा शीघ्रतरं लभ्यते, द्वीन्द्रि-12 याद्यवस्थायां च स्यात् , तथापि मनोद्रव्येभ्योऽपि भाषाद्रव्याणामतिस्थूलतया स्तोकानामेवैकदा ग्रहणात् ततोऽनन्तगुणो वाक्पुद्गलपरावर्तनिर्वर्तनाकाल इति, ततोऽपि वैक्रियपुद्गलपरावर्त्तनिवर्त्तनाकालोऽनन्तगुणो, वैक्रियशरीरस्यातिबहुकाललभ्यत्वादिति । पुद्गलपराव नामेवाल्पबहुत्वमाह-'एएसि ण'मित्यादि (सू. ४४७) सर्वस्तोका वैक्रियपुद्गलपरावर्ता बहुतमकालनिर्वर्तनीय| त्वात् तेषां, ततोऽनन्तगुणा बाविषयाः, अल्पतरकालनिर्वय॑त्वाद् , एवं पूर्वोक्तयुक्त्या बहुतराः क्रमेणान्येऽपि वाच्या इति ।। द्वादशशते चतुर्थः॥
antyaintentasteATREetitinI OHIBITERARDARDHA
गाथा
दीप अनुक्रम [५२९५६२]
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्रा०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति:
~77~