SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ३६० ३९२] गाथा दीप अनुक्रम [३६२ ४७३] श्रीभग० लघुवृत्तौ COCJCCCCCCK_K “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २ शतक [९], वर्ग [-] अंतर् शतक [], उद्देशक [१-३४], मूलं [ ३६० - ३९२] + गाथा तैरण्यवन्तहरिवर्षरम्यकेषु भवन्ति तेषु च तस्य भावः आकाशगतिलब्धिसम्पन्नस्य तत्र गतस्य केवलोत्पत्तिसद्भावे सति, 'साहरणं'ति देवेन नयनं प्रतीत्य 'सोमणसवणे'त्ति सौमनसवनं मेरौ तृतीयं पाण्डुगवनं चतुर्थं, 'गड्डाए' त्ति गर्ने निम्नभूभागे अधोलोकग्रामादौ 'दरिए 'त्ति दयां, 'पायाले'त्ति पातालकलशे 'भवण'त्ति भवनपतिषु, 'पण्णरस' त्ति १५ कर्मभूमिषु, कर्माणिकृषिवाणिज्यादीनि तद्भूमयः कर्मभृमयस्तासु ।'तस्स' त्ति (सु. ३६९) यः श्रुत्वा केवलमुत्पादयेत् तस्य प्रतिपद्मसम्यग्दर्शनचारित्रस्य 'अट्टमंअमेणं' ति इति यदुक्तं तत् प्रायो विकृष्टतपश्चरणवतस्साधोरवधिज्ञानमुत्पद्यत इति ज्ञापनार्थमिदं, 'छसु लेसासु' त्ति यद्यपि भावलेश्यासु प्रशस्तास्वेव तिसृष्ववधिज्ञानं लभते तथापि द्रव्यलेश्याः प्रतीत्य षट्स्वपि लेश्यासु लभते सम्यक्त्वश्रुतवत् यदुक्तं"सम्मत सुयं सब्बासु लहइ" चि, तल्लाभे चासौ पट्खपि स्यादिति, 'तिसु व 'त्ति अवधेराद्यज्ञानद्वयाविनाभृतत्वादधिकृतावधिज्ञानी त्रिषु ज्ञानेषु स्यादिति, 'चउसुति मतिश्रुतमनः पर्यायज्ञानिनोऽवधिज्ञानोत्पत्तौ ज्ञानचतुष्कभावाच्चतुर्ज्ञानेषु अधिकृतावधिज्ञानी स्यादिति, अक्षीणवेदस्यावधिज्ञानोत्पत्तौ सवेदकः, क्षीणवेदस्यावधिज्ञानोत्पत्तौ ज्ञानचतुष्कभावाच्चतुर्ज्ञानेषु अधिकृतावधिज्ञानी स्यात्, प्राप्तव्य केवलज्ञानस्यास्य विवक्षितत्वात्, 'चउसु'त्ति यद्यक्षीणकषायोऽवधिज्ञानी तदाऽयं चारित्रयुक्तत्वाचतुस्सञ्ज्वलनकषायेषु स्यात्, यदा क्षपकश्रेणिवर्त्तित्वेन सज्ज्वलनकोघे क्षीणेऽवधिं लभते तदा त्रिषु सज्ज्वलनमानादिषु यदा तु सज्ज्वलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति । नवमशते एकत्रिंशत्तमः ॥ 'पवेसण 'त्ति (सू. ३७०) गत्यन्तरादुदृत्तस्य जीवस्यान्यगतौ जीवप्रवेशनमुत्पादः, 'एगे भंते नेरइए' (सू. ३७१) इत्यादौ ७ विकल्पाः, 'दो भंते' इत्यत्र २२८ विकल्पाः, तत्र रत्नप्रभाद्यास्सप्तापि पृथिवीः क्रमात् पट्टादौ संस्थाप्याक्षसञ्चारणया पृथ्वीना ९ शतके ३२ उद्दे. पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः ••• अत्र शतक ९, उद्देशक: ३१ वर्तते । मूल संपादने यत् उद्देशकः ४ मुद्रितं तत् मुद्रणदोषः ज्ञातव्यः ~27~
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy