________________
आगम
(०५)
प्रत
सूत्रांक
[७१६
८०९]
गाथा
दीप
अनुक्रम
[८६१
९७४]
श्रीभग० लघुपृचौ
550
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [२५], वर्ग [-] अंतर-शतक [-]
उद्देशक [१-१२], मूलं [७१६ ८०९] + गाथा
'फासिंदियत्ताए जहा ओरालिय'त्ति, अयमर्थः-स्पर्शनेन्द्रियतया द्रव्याणि गृह्णाति यथौदारिकवपुः स्थितास्थितानि पद्दिगागतप्रभृतीनि 'मणजोगत्ताए 'त्ति 'नियमं छद्दिसं 'ति मनोयोगतया तथा द्रव्याणि गृह्णाति, यथा कार्मणं स्थितान्येव गृह्णाति, केवलं तत्र व्याघातेनेत्युक्तं इह तु नियमात् पदिशीत्येवं वाच्यं, नाडीमध्य एवं मनोद्रव्यग्रहण भावात्, अत्रसांनां हि तन्नास्ति, एवं मनोद्रव्यवद्वाद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए 'ति काययोगद्रव्याणि स्थितास्थितानि पद्दिग। गतप्रभृतीनि 'काइ' त्ति शरीराणि ५ इन्द्रियाणि ५ योगास्त्रयः आनप्राणं च सर्वाणि १४ पदानि ।। २५ शते द्वितीयः ॥
तृतीये पुद्गलसंस्थानान्याह, संस्थानानि स्कन्धाकाराः 'अणित्थंत्थि त्ति (सू. ७२४) इत्थं - अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थस्थं परिमण्डलादिभिन्नं 'दव्वत्थयाए 'ति द्रव्यरूपमर्थमाश्रित्य 'पएस' त्ति प्रदेशरूपमर्थमाश्रित्य 'दव्वदुपएस 'ति तदुभयमाश्रित्य 'सव्वत्थोवा परिमंडल'त्ति इह यानि संस्थांनानि यत्संस्थानापेक्षया बहुतरप्रदेशाबगाहानि तानि तदपेक्षया स्तोकानि तथाविधस्वभावत्वात्, तत्र च परिमण्डलं संस्थानं जघन्यतोऽपि विंशतिप्रदेशावगाहाद्बहुतरप्रदेशावगाहि, वृत्तत्र्यत्रचतुरस्रायतानि तु क्रमाञ्जघन्यतः पञ्चचतुस्त्रिद्विप्रदेशावगाहित्वात् अल्पप्रदेशावगाहीनि, अतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात् परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशात् स्तोकानि इत्यादि । 'से किं तं आयारो "त्ति (स. ७३२) प्राकृतत्वात् कोऽसावाचारः १, 'आयारगोयर' इत्यनेनेदं सूचितम् 'आयारगोयरविणयवेणइय सिक्खाभासाचरणकरणजायमायाविसीओ आघविजंति' चि तत्राचारो - ज्ञानाद्यनेकभेदभिन्नः गोचरो - भिक्षाग्रहणविधिः विनयो-ज्ञानादिविनयः वैनयिकं - विनयफलं कर्म कार्यादि शिक्षाग्रहणासेवनाभेदभिन्ना अथवा वैनयिको विनेयो वा शिष्यस्तस्य शिक्षा वैनयिकशिक्षा विनयशिक्षा वा भाषा सत्या
२५ श०
३-४ .
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
~ 255 ~