SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६६२ ६८८] गाथा दीप अनुक्रम [७७९ ८०५] श्रीभग० लघुवृतौ “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [२०], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ६६२-६८८] + गाथा चतुर्वर्णे तु प्रागुक्तानां अष्टमद्वादशान्तिमभंगत्रयवर्जितानां शेषा एकादश स्युः, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात् पञ्चपञ्चाशदिति 'जड़ पंचवण्णे'त्ति षद् भङ्गाः, 'छ.सीयं भंगसयं'ति एकादिसंयोगसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाशत्षट्सङ्ख्यभङ्गकानां मीलनात् पटुत्तराशीत्यधिकं भङ्गकशतं स्यादिति, 'सत्तपएसिए'ति इह चतुर्वर्णत्वे प्रागुक्तानां षोडशानामन्तिमवर्जाः शेषाः १५ स्युः, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात् ७५ भङ्गाः 'जड़ पंचवण्णे'त्ति इह पञ्चानां पदानां ३२ भङ्गाः, स्युः, तेष्वाद्यानां षोडशानामष्टमद्वादशान्त्यत्र यवर्जिताः शेषाः उत्तरेषां च षोडशानामाद्यास्त्रयः पञ्चमनवमौ चैवं सर्वेऽपि १५ सम्भवन्ति, 'दोसोला भंगसय'त्ति एकद्वित्रिचतुःपञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनात् द्वे शते षोडशोत्तरे स्वातामिति ।। 'अट्ठपदेसिए'त्ति इह चतुर्वर्णत्वे प्रागुक्ताः १६ स्युः, तेषां च प्रत्येकं पश्चसु चतुष्कसंयोगेषु भावात् ८० भङ्गाः, पञ्चवर्णत्त्रे तु ३२ मङ्गानां १६-२४-२८ अन्त्यत्रयवजः शेषाः २६ भङ्गाः स्युः, 'दो इकतीसाई' ति प्रागुक्तानां पञ्चचत्वारिंशदशीत्यशीति षडुत्तरविंशतिसङ्ख्यानां मीलनात द्वे शते एकत्रिंशदुत्तरे स्वातां । 'नवपदेसियरस'त्ति इह पश्चवर्णत्वे द्वात्रिंशद्भङ्गानामन्त्य एव न स्यात् शेषं प्रागुक्तानुसारेण भाव्यं । 'बादरपरिणए णं ति (सू. ६७०) सर्व एव कर्कशो गुरुः शीतः स्निग्धथ एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेते एकादिपद व्यभिचारेण १६ भङ्गाः, 'पंच फासे 'ति कर्कशगुरुशीतैः स्निग्धरूक्षयोरेकानेकत्वकृता चतुर्भङ्गी लब्धा, एण्वेव च कर्कशगुरूष्णैर्लभ्यत इत्येवमष्ट, एते चाष्टौ कर्कशगुरुभ्यामेव, अन्ये कर्कशलघुभ्यां, एवमेते १६ कर्कशपदेन लब्धाः, एत एव मृदुपदं लभत इत्येवं कर्कशपद एव द्वात्रिंशत् स्निग्धरुक्षयोरेकत्वादिना लब्धा, अन्या द्वात्रिंशच्छीतोष्णयोः अन्या च गुरुलध्वोः | २० श० ५ उद्देशः पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः ~213~
SR No.035062
Book TitleSavruttik Aagam Sootraani 2 02 Bhagavati Mool evam Vrutti Aagam 5 Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size87 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy