________________
आगम
(०५)
प्रत
सूत्रांक
[ ५३९
५६१]
गाथा
दीप
अनुक्रम [६३९
६५९ ]
श्रीभग० लघुवृत्तौ
SCEDCPC
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) भाग-२
शतक [१५], वर्ग [-] अंतर् शतक [-] उद्देशक [-], मूलं [५३९-५६१] + गाथा
महोपाध्याय श्रीजिन माणिक्य गणिशिष्य श्री अनन्त हंसगणिशिष्यदानशेखरगणिसमुद्धृतायां भगवतीलघुवृत्तौ चतुर्द्दशशतविवरण सम्पूर्ण ॥
-
अथ पञ्चदशं शतमारभ्यते- 'मंखलिपुत्ते 'ति (सू. ५३९) मङ्खल्यभिधानः - मङ्खपुत्रः, 'चउवीस'ति चतुर्विंशतिवर्षप्रमाणप्रव्रज्यापर्यायः, 'दिसाचर'त्ति दिशं मेरां चरन्ति मन्यन्ते भगवतो वयं शिष्या इति दिकूचराः, देशचरा वा दिक्चराः, भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः, पासावचिज्जत्ति चूर्णिकारः, 'अंतियं'ति अन्तिकं समीपं 'पाउ भविस्य'त्ति आगताः 'अडविहं' ति अष्टविधं पूर्वगतं निमित्तमित्यर्थः तच्चेदम्- दिव्यं १ उत्पातं २ आन्तरिक्षं ३ भौमं ४ स्वप्नः ५ खरं ६ लक्षणं ७ व्यञ्जनं ८ चेत्यादि पूर्वश्रुतमध्यगतं 'मग्गदसमं 'ति मागौं गीतमार्गवृत्तमार्गलक्षणौ सम्भाव्येते 'दसम'त्ति अत्र नवमशब्दस्य लुप्तस्य दर्शनात् नवमदशमाविति दृश्यं, ततच नवमदशमौ मार्गों यत्र तत्तथा, स्वकीयैः २ 'मतिदंसणेहिं' ति मतेः-बुद्धेर्मत्या वा दर्शनानि वस्तुज्ञानानि मतिदर्शनानि तैः 'निज्जूर्हति' निर्यथयन्ति पूर्वगतश्रुतपर्याययूथान्निर्द्धारयन्ति, उद्धरन्ति इत्यर्थः, 'उबट्टाईसु'त्ति उपस्थितवन्तः, आश्रितवन्त इत्यर्थः, 'अहंगस्स' त्ति अष्टाङ्गस्य 'केणइति केनचित् तथाऽविदितखरूपेण 'उल्लोयमेत्तेणं' उद्देशमात्रेण 'इमाई'ति इमानि पद् अनतिक्रमणीयानि - अव्यभिचारीणि 'वागरणाई'ति पृष्टेन सता यानि व्याक्रियन्ते - अभिधीयन्ते तानि व्याकरणानि, पुरुषार्थोपयोगित्वाचैतानि षट् उक्तानि, अन्यथा नष्टमुष्टिचिन्तोल्कादीन्यन्यानि बहुनिमि: तानि गोचरीभवन्ति || 'उडाणपरियाणियं ति (सू. ५४० ) परियानं विविधव्यतिकरपरिगमनं तदेव पारियानिकं चरितं
१५ श०
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः ... अत्र शतक १४ समाप्तं. अथ शतक १५ आरभ्यते
~147~