________________
आगम
(०५)
प्रत
सूत्रांक
[ ४६९
४९८]
गाथा
दीप
अनुक्रम
[५६३
५९३]
श्रीभग०
लघुवृत्तौ
DİCİCİGDİLECİGİ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२
शतक [१३], वर्ग [-] अंतर् शतक [-] उद्देशक [१-१०], मूलं [ ४६९ ४९८ ] + गाथा
प्रदेशैर्विंशत्यैव च नयमतेनैवाधस्तनैरुपरितनैर्वा प्रदेशैः (पार्श्वयो) द्वाभ्यां स्पृश्यत इति, उत्कृष्टपदे तु विंशत्या निरुपचरितैरवगाहप्रदेशैः एवमधस्तनै २० रुपरितनै २० पूर्वापरपार्श्वयोश्च विंशत्या विंशत्या, द्वाभ्यां च दक्षिणोत्तरपार्श्वस्थिताभ्यां स्पृष्टः, ततथ विंशतिरूपः सख्याताणुकः स्कन्धः पञ्चगुणया विंशत्या प्रदेशानां प्रदेशद्वयेन च स्पृष्ट इति, अत एवोक्तम्- 'उकोसपदे णं तेणेव संखिज्जएणं पंचगुणेणं दुरूवाहिएणं'ति । 'असंखिजे 'ति पसूत्री तथैव। 'अनंता भंते!'ति पद्मत्री तथैव, नवरमिह यथा जघन्यपदे औपचारिका अवगाहप्रदेशा अधस्तना उपरितना वा तथोत्कृष्टप्रदेशेऽपि न हि निरुपचरिता अनन्ता आकाशप्रदेशा अवगाहतस्सन्ति, लोकस्याप्यसङ्ख्यातप्रदेशात्मकत्वादिति, इह प्रकरणे इमे वृद्धोक्ते गाथे स्यातां - 'धम्माइपएसेहिं, दुपएसाई जहण्णयपयम्मि दुगुणा दुरूव हिरणं तेणेत्र कहष्णु हु फुसेजा १ ॥ १ ॥ एत्थ पुण जहण्णपयं लोगंते तत्थ लोगमालिहिउं । फुसणा ठावेयच्या अहवा खंभाइकोडीए ||२|| "त्ति | 'एगे भंते! अद्धासमए'त्ति इह वर्त्तमानसमयविशिष्टः समयक्षेत्रमध्यवत्त परमाणुरद्धासमयो ग्राह्यः, अन्यथा तस्य धर्मास्तिकायादिप्रदेशैः सप्तभिः स्पर्शना न स्यात्, इह च जघन्यपदं नास्ति, नरक्षेत्रमध्यवर्त्तित्वादद्धासमयस्य जघन्यपदस्य च लोकान्त एव संभवादिति, तत्र सप्तभिरिति कथं ?, अद्धासमयविशिष्टपरमाणु द्रव्यमेकत्र धर्मास्तिकाय प्रदेशेऽवगाढं, अन्ये च तस्य षट्सु दिविति सप्त, जीवास्तिकाय प्रदेशैश्वानन्तैः, एकप्रदेशेऽपि तेषामनन्तत्वादेव, 'जाव अद्धासमएहिं 'ति इह यावत्करणादिदं दृश्यम् -'एकः अद्धासमयोऽनन्तैः पुद्गलास्तिकाय प्रदेशैरद्धासमयैश्च स्पृष्टः, भावना चास्यैवंअद्धासमय विशिष्टमणुद्रव्यमद्धासमयः स चैकः पुद्गलास्तिकाय प्रदेशैरनन्तैः स्पृश्यते, अद्धासमय विशिष्टानामनन्तानामप्यणुद्रव्याणामद्धासमयत्वेन विवक्षितत्वात् तेषां च तस्य स्थाने तत्पार्श्वतथ सद्भावादिति । धर्मास्तिकायादीनां प्रदेशतः स्पर्शनोक्ता,
| १३ श०
४ उद्देशः
112~
॥ १९९॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः