SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२१-२२] गाथा दीप अनुक्रम [ २८-३०] भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १ शतक [१], वर्ग [-], अंतर- शतक [-] उद्देशक [२] मूलं [२१-२२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग-कादिपदात्मकाः षट् दंडकाः सूचिताः, तदेवं च एतेषां ७ दंडकानां यो यथाऽध्येतव्यस्तं तं तथा दर्शयन्नाह - 'ओहियाणं' ति तत्राधिकानां पूर्वोक्तानां सामान्यानां नारकादीनां तथा सलेश्यानामधिकृतानां २ शुक्कलेश्यानां तु ३ सप्तमदंडकवाच्यानामेषां त्रयाणामेको गमः सदृशः पाठः, सलेश्यः शुक्ललेश्यश्चेत्येवंविधविशेषणकृत एव तत्र भेदः, औधिकदंडकवदनयोः सूत्रमितिहृदयं तत्थ जस्सत्थि' इति वक्ष्यमाणपदस्येह संबंधाद्यस्य शुक्ललेश्याऽस्ति स एव तदंडकोऽध्येतव्यः, तेनेह पञ्चेन्द्रियतियञ्चो मनुष्या वैमानिकाच वाच्याः, नारकादीनां शुक्कलेश्याया अभावात्, 'किण्हलेसनीललेसाणंपि एको गमो ' औधिक एवेत्यर्थः, विशेषमाह - 'नवरं वेयणाए मायिमिच्छ० अमाविसम्म ०' कृष्णलेश्यनीललेश्यदंडके वेदनासूत्रे च 'दुविहा णेरइया पण्णत्ता-सणिभूया असणिभूया य'त्ति औधिकदंडकाधीतं नाध्येतव्यम्, असंज्ञिनां प्रथमपृथिव्यामेवोत्पादात् 'अस्सण्णी खलु पढमं' इतिवचनात् प्रथमायां तु कृष्णनीललेश्ययोरभावात् तर्हि किमध्येतव्यं ? 'मायित्ति अमायित्ति' एते मायिनो मिध्यादृष्टयश्च महावेदनाः स्युः, यतस्तेऽशुभामुत्कृष्टस्थितिं कुर्युः, प्रकृष्टायां तस्यां महती वेदना स्यात्, इतरेषां तु विपरीता । 'मणुस्सा किरियासु'त्ति मनुष्यपदे क्रियासूत्रे सरागवीतरागत्वे पठिते, ते तु कृष्णनीललेश्यदंडक योर्नाध्येतव्ये, कृष्णनीलोदये संयमस्य निषिद्धत्वात्, तथा मनुष्याणां 'काउलेस्साए 'त्ति कापोतलेश्याया दंडको नीला दिलेश्यादंडकवध्येतव्यः, णवरं णेरहएति नवरं नारका वेदनासूत्रे औधिकदंडकवद्वाच्याः, ते चैवं नेरड्या दुबिहा पं० तं० - संनिभृ० असण्णिभूया यत्ति, असंज्ञिनां प्रथमपृथिव्युत्पादन कापोतले श्यासंभवात् इति, 'तेउलेस्सापम्हलेस्स'ति तेज:पद्मलेश्ये यस्य स्यातां तमाश्रित्य यथौधिकदंडकः तथैतौ दंडकौ भणितव्यौ, नारकविकलेन्द्रियाणां तेज वायूनां चाद्यास्तिस्र एवं भवनपति (पृथ्व्यम्बु) वनस्पतिव्यन्तराणामाद्याश्चतस्रः, पञ्चेन्द्रियतिर्यङ्मनुष्याणां बती सूत्रम् JOLIEJIGJIGJIGJJCICK. ~44~ १ शतके २ उद्देश:
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy