________________
आगम
(०५)
प्रत
सूत्रांक
[ ३४४
३५१]
गाथा:
दीप
अनुक्रम [४२२
४२९]
भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १
शतक [८], वर्ग [-] अंतर- शतक [-] उद्देशक [९], मूलं [ ३४४-३५१] + गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग० लघुवृत्तौ
JİSİCİCİLD
सर्वबन्धकः, स चाष्टादश सागरोपमाणि तत्र स्थित्वा ततथ्युतो वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये चासौ सर्वबन्धकः इत्येवं सर्वबन्धान्तरं जघन्यमष्टादश सागराणि वर्षपृथक्त्वाधिकानीति, उत्कृष्टं त्वनन्तं कालं कथं १, स एव तस्मा|च्च्युतोऽनन्तं कालं वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पन्नः प्रथमसमये सर्वबन्धक इत्येवं, 'देसबंधंतरं जह० वासपुहुतं ति, कथं १, स एव च देशबन्धकः सन् च्युतो वर्षपृथक्त्वं मनुष्यत्वमनुभूय पुनस्तत्रैव गतः, तस्य सर्वबन्धानन्तरं देशबन्धः, एवं सूत्रोतमन्तरं स्यात् इह यद्यपि समयाधिकं वर्षपृथक्त्वं स्यात् तथाप्येतस्य वर्षपृथक्त्वादनर्थान्तरत्वविवक्षया न भेदेन गणनमिति, एवं प्राणतारणाच्युतयैवेयकसूत्राणि नेयानि, अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्येन नय दिनायुष्केभ्यः आनताद्यच्युतान्ता नवमासायुष्केभ्य उत्पद्यन्ते इति जीवसमासेऽभिधीयते, ततो जघन्यं तत्सर्वबन्धान्तरं तत्तदधिकं तत्तञ्जवन्यस्थितिरूपं प्राप्नोति इति, सत्यमेतत् केवलं मतान्तरमेवेदं । अनुत्तर विमानसत्रे 'अणुत्तरोववाइयपुच्छा' 'उकोसेणं'ति उत्कृष्टं सर्वबन्धान्तरं देशन्धान्तरं च सख्यातानि सागराणि यतो नानन्तकालमनुत्तरविमानच्युतः संसरति, तानि च जीवसमासमतेन द्विसङ्ख्यानीति, अथ वैक्रियवपुर्देशबन्धकादीनामल्पत्वादि आह- 'एएसिन्ति, तत्र सर्वस्तोका वैकियसर्वबन्धकाः, तत्कालस्याल्पत्वात्, देशवन्धका असङ्ख्यातगुणाः, तत्कालस्य तदपेक्षयाऽसङ्ख्यातगुणत्वात्, अवन्धका अनन्तगुणाः, सिद्धानां वनस्पत्यादीनां च तदपेक्षया अनंतगुणत्वादिति । अथाहारकशरीरप्रयोगबन्धमाश्रित्याह- 'एगागारे 'ति एकप्रकारो, नौदारिकादिवन्धवदे केन्द्रियाद्यनेकप्रकार इत्यर्थः सर्व्वबंधे एकं समर्थ, आद्यसमये एवं सर्वबन्धभावात्, 'देसबंधं जहण्णेणं अंतोमुहुत्तं उक्को० अंतोमुतंति जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तमात्रमेवाहारकशरीरी स्यात्, परत औदारिकशरीरस्यावश्यं ग्रहणात् तत्र चान्तर्मुहूर्त आद्य
~304~
८ शतके
१९ उद्देशः