________________
आगम
(०५)
प्रत
सूत्रांक
[२४६
२४८]
गाथाः
दीप
अनुक्रम [३०२
३१२]
भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १
शतक [६], वर्ग [-], अंतर् शतक [-] उद्देशक [७] मूलं [२४६-२४८] + गाथा:
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
İC DCDÍCOŃCDİG SCHOLICJIGIOCHIC)
श्रीभग० समुदयसमितिसमागमेनैका उत्-प्राबल्येन लक्ष्णिका उच्छ्लक्ष्णलक्ष्णिका, एते चोच्लक्ष्णलक्ष्णिकादयोऽङ्गुलान्ता दश प्रमाणभेदा लघुवृत्तौ यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुत्वं न व्यभिचरन्ति अत उक्तम् उच्छ्लक्ष्णलक्ष्णिका, एतदष्टगुणत्वात् ऊर्ध्वरेण्वपेक्षया तु अष्टभागत्वात् 'सण्हसहिय'चि श्लक्ष्णलक्ष्णिका 'उद्धरेणु'ति ऊर्ध्वाधस्तिर्यगूगमनलक्षणो रेणुरूर्ध्वरेणुः 'तसरेणु'ति त्रस्थति-वायुप्रेरितो गच्छेदिति त्रसरेणुः रथोत्खातो रेणू रथरेणुः, बालाग्र लिखाद यः प्रतीताः, 'नालिय'ति यष्टिविशेषः, 'अक्खे'त्ति अक्षः शकटावयवः, 'तं तिऊणं सविसेसं'ति तं पल्यं त्रिगुणं सविशेषं, वृत्तपरिधेः किञ्चिन्यूनपद्भागाधिकत्रिगुणत्वात्, 'एगाहिये' त्यादि एका हिकद्वयाहिकत्र्याहिकानां 'उद्योस'नि उत्कर्षतः सप्तरात्रप्ररूढानां 'संमट्टे'त्ति सम्मृष्ट- आकण्ठभृतः सन्नि चितो व्याप्तो निविडः, 'कुत्थेज'ति न कुध्येयुः नासारतां गच्छेयुः 'परिविद्धंसेज 'ति तानि वालाग्राणि न परिविध्वंसेरन्- विनाशं न गच्छेयुः 'नो पूहत्ताए'त्ति न पूतितया 'अवहाय'त्ति तद्वालाग्रमपनीय 'खीणे' क्षीणो वालाग्राकर्षणात् 'नीरए' निर्गतरजाः अपकृष्टधान्यरजः कोष्ठागारवत्, 'निम्मले' निर्मलः विगतमलः, मलः सूक्ष्मतवालाग्रः, प्रमार्जनिकाप्रसृष्टकोष्ठा गारवत्, 'निडिए' अपनेयद्रव्यापनयनमाश्रित्य निष्ठां गतः प्रयत्नप्रमार्जितकोष्ठागारवत्, 'निल्लेव'त्ति अतिसंश्लेषात् तन्मयतां गतो (लेपः, तथाविध)वालाग्रापहारात्, अपनीतभिच्या दिगतधान्यकोष्ठागारवत्, 'अवहडे' निःशेषवालाग्रापहारात्, विशुद्धो रजोमलकल्पवालाग्राकर्षणात् विशेषेण शुद्धो विशुद्धः, एकार्थार्थते शब्दाः, व्यावहारिकं चेदमद्धापल्योपमं इदमेवासङ्ख्ये यखण्डीकृतैकैकवालाग्रभृतपल्यात् वर्षशते २ य उद्धारस्तत्सूक्ष्मं स्यात्, समयोद्वारे तु उद्धारपल्योपमं, तैरेवासंख्येयखण्डैः समयोद्वारे सूक्ष्ममुद्धारं, तथा तैरेव वालाग्रैः स्पृष्टाः ये प्रदेशाः तेषां प्रतिसमयोद्धारेण यः कालस्तद् व्यावहारिकं क्षेत्रपल्योपमं, एवं यः पुनस्तैरेवासङ्ख्येयखण्डीकृतैः स्पृष्टास्पृष्टानां
~205~
DİCHİLDİKD
६ शतके
७ उद्देशः
॥९६॥