________________
आगम
(०५)
प्रत
सूत्रांक
[१७६
१७८]
+
गाथा
दीप
अनुक्रम [२१५
२१८]
भाग-1 “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः) भाग - १
शतक [५] वर्ग [F]. अंतर् शतक [-] उद्देशक [१] मूलं [ १७६-१७८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः
श्रीभग
लघुवृत्तौ
043048
भागा नव च दशभागयोजनस्येत्येतत् सर्वोत्कृष्टदिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं स्यात् कथं ?, मन्दरपरिक्षेपस्य किञ्चिन्न्यूनत्रयोविंशत्युत्तरपद् ३१६२३ शताधिकैकत्रिंशद्योजनसहस्रमानस्य दशभिर्भागे हुने यलब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति । तथा लवणसमुद्रं प्रति चतुर्नवतियोजनानां सहस्रं ९४८६८ अष्टौ शतानि अष्टपष्टयधिकानि चत्वारथ दशभागयोजनस्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं स्यात् कथं ?, जम्बूद्वीपपरिधेः किञ्चिन्न्यूनाष्टाविंशत्युत्तरशतद्वयाधिकषोडशसहस्रोपेतयोजनलक्षत्रय|मानस्य ३१६२२८ दशभिर्भागे यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति, जघन्यरात्रिक्षेत्रपरीमाणं चाप्येवमेव, नवरं परिधेदेशभागो द्विगुणः कार्यः, तत्राद्यः पद योजनानां ६३२४ सहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि पद च भागा दशभागयोजनस्य, द्वितीयं तु त्रिषष्टिः सहस्राणि द्वे पञ्चचत्वारिंशदधिके योजनानां शते षड् भागा दशभागयोजनस्य ६३२४५ सर्वलघौ च दिने तापक्षेत्र मनन्तरोक्तरात्रिक्षेत्रतुल्यं, रात्रिक्षेत्रं त्वनन्तरोक्ततापक्षेत्रतुल्यंमिति, आयामतस्तु तापक्षेत्रं जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजनसहस्राणि, लवणे च त्रय ३३३३३ ३ त्रिशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि एकभागच त्रिभागयोजनस्य, उभयंमीलने तु अष्टसप्ततिः सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि योजनत्रिभागधेति ७८३३३ । 'उक्कोसए अट्ठारसमुहुत्ते दिवसे हवइ' त्ति इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं स्यात्, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिर्मण्डलानि स्युः, एकोनविंशत्यधिकं च शतं मण्डलानां लवणसमुद्रमध्ये भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा वर्त्तते सूर्यस्तदा अष्टादशमुहूर्त्ती दिवसो भवति यदा सर्वबाधे मण्डले वर्त्तते रविस्तदा सर्वजघन्यो द्वादशमुहूर्ती दिवसो भवति, अष्टादश मुहूर्त्ताः कथं स्युः १, उच्यते, द्वितीय मण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां एकषष्टिभागरूपमुहूर्त्तसम्बन्धिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशत
~ 150 ~
५ शतके
११ उद्देशः