SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (०५) भाग-1 "भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [२], वर्ग, अंतर्-शतक , उद्देशक [१०], मूलं [१२०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्ति: r प्रत लघुवृत्ती सूत्रांक [१२०] दीप अनुक्रम [१४५] श्रीभग लोकाकाशादिना यस्तस्य स्पर्शनादिगतो व्यवहारो यथोलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति, 'अद्धा-g समए'त्ति अद्धा-कालस्तल्लक्षणः समयः-क्षणः अद्धासमयः, स चैक एच, वर्तमानलक्षणः, अतीतानागतयोरसच्चात् । अथालोकाकाशं प्रति प्रश्नयबाह-'पुच्छा तह चेव'(स. १२१)यथा लोकप्रश्नः तथैव, निर्वचनं तेषां पप्णामपि निषेधः 'एगे अजीवदव्वदेस'त्ति अलोकाकाशस्य देशत्वं लोकालोकाकाशद्रव्यस्य भागरूपत्वात् , 'अगुरुल हुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् , 'अणतेहिं' अनन्तः । खपर्यायपरपर्यायरूपैगुणैः, अगुरुलधुखभावरित्यर्थः, 'सव्वागासे'त्ति अलोकाकाशस्य लोकाकाशसम्बद्धत्वेन अलोकाकाशं सर्वाकाशमित्युच्यते, 'अणंतभागूणे'त्ति लोकाकाशस्यालोकाकाशापेक्षया अनन्तभागरूपत्वात तेनालोकाकाशमनन्तभागोनमित्यर्थः। अथ धर्मास्तिकायादिप्रमाणमाह-'केमहालए'त्ति (स, १२२) लुप्तभावप्रत्ययत्वात् निर्देशस्य किं महचं यस्यासौ किंमहत्वः, 'लोए'त्ति लोको लोकप्रमितत्वात् , लोकमात्रो लोकप्रमाणः, 'लोयफुडे'त्ति लोकेन-लोकाकाशेन सकलस्वप्रदेशः स्पृष्टो लोक-18 स्पृष्टः,'लोयं चेव'त्ति लोकमेव च स्पृष्ट्वा स्वप्रदेशस्तिष्ठतीति । 'अहोलोएणं'ति (स, १२३ ) 'सातिरेगमद्धं'ति लोकव्यापक त्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधोलोकस्य 'असंखेजइभागं'ति असङ्ख्यातयोजनप्रमाणस्य धर्मास्तिकायस्य। IMI ऊर्ध्वाधो मेरुरुचकादि अष्टादशयोजनशतप्रमाणस्तिर्यग्लोकः, यत:-'सगरज्जू तिरियाऽट्ठारसजोयणसय'त्ति लोकनालिबचनात् | माइति, असङ्ख्यातभागवर्तीति तस्यासावसङ्ख्येयभागं स्पृशति, 'देसूणमद्धंति देशोनसप्तरज्जुप्रमाणत्वाव॑लोकस्येति, 'इमाणं । भंतेत्ति इह रत्नप्रभायां प्रथम रत्नप्रभासूत्रं घनोदधिमत्रं धनवातसत्रं तनुवातसूत्रं ४ अवकाशान्तरसूत्रं पञ्चमं, एवं प्रति पृथिवीं पञ्च सत्राणि स्पः, ततः सप्तानां पञ्चभिर्गुणने जातानि पञ्चत्रिंशत्पूत्राणि, द्वादशदेवलोकसत्राणि द्वादश, अवेयकसत्राणि त्रीणि.IN ~122
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy