SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [९१-९५] दीप अनुक्रम [११३ ११७] भाग-1 “भगवती”- अंगसूत्र -५ (मूलं + वृत्तिः) भाग - १ शतक[२], वर्ग [], अंतर-शतक [-] उद्देशक [१], मूलं [९१-९५] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र[०५] अंगसूत्र[०५] भगवती मूलं एवं दानशेखरसूरिरचिता वृत्तिः श्रीभग लघुवृत्तौ नमासे क्षेतव्यानि, 'चउत्थं चउत्थेणे' ति चतुर्थं भक्तं यावद्भक्तं त्यज्यते यत्र तच्चतुर्थभक्तं, इयं चोपवासस्य संज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति, 'अणिक्वित्तेणं' अविश्रान्तेन 'दिय'त्ति दिवसे 'ठाणुकुडु' त्ति स्थानं-आसनमुत्कटुकं आधारे पुतालगनरूपं यस्यासौ स्थानोत्कटुकः, 'वीरासणेणं' वीरासनेन रात्रौ निषीदनासनाकर्षणात् तथैव स्थित्येत्यर्थः, 'अवाउडेण' प्रावरणरहितेन 'उरालेण' प्रधानेन विपुलेन बहुदिनत्वात् 'पयत्तेण' प्रदत्तेन गुरुभिरनुज्ञातेन 'पज्जहिएण' प्रकर्षादङ्गीकृतेन 'उदग्गेण' उत्तरोत्तरं वृद्धिमता 'उदात्तेन' उन्नतभाववता 'उत्तमेन' उत्तमपुरुषसेवितत्वेन 'उदारेणं' औदार्यवता निःस्पृहत्वात् 'महानुभागेण' महानुभावेन 'शुष्को' नीरसवपुष्ट्वात्, 'लक्खे' चि बुभुक्षावशेन रूक्षीभूतत्वात्, अस्थिचर्मावनद्धः किटिकिटिका निर्मासास्थिसम्बन्धी उपवेशनादिक्रियासमुत्थः शब्दस्तां भूतः - प्राप्तो यः स किटिकिटिकाभूतः धमनीसंततो- नाडीव्याप्तो मांसक्षयेणादृश्य माणनाडीकत्वात् 'जीवजीवेणं' ति अनुस्वारस्यागमिकत्वात् जीवजीवेन, जीवबलेनेत्यर्थः, न वपुर्चलेनेति, 'भासं भासित्यादि, कालत्रयनिर्देशः ग्लायति ग्लानः स्यात्, 'से जहानामए'त्ति से इति अथार्थः, 'यथेति दृष्टान्तार्थः, नामेति सम्भावनायां, ए इति वाक्यालङ्कारे, 'कट्ठसगडिय'त्ति काष्ठभृता शकटिका काष्टकटिका 'पत्तसगडिय'त्ति पलाशादिपत्रभृता गत्री 'पत्ततिल' त्ति पत्रयुक्ततिलानां भाण्डकानां च मृन्मयभाजनानां भृता गन्त्री, अङ्गारभृतगन्रीत्यर्थः, 'उन्हे दित्ता' उष्णस्तापस्तत्र दत्ता, शुष्का सतीति विशेषणद्वय मार्द्रकाष्ठादीनामेव सम्भवति, हुताशन इव भस्मराशिप्रतिच्छन्नः, 'तवेणं तेएणं' ति तपस्तेजसा एव, बहिर्निस्तेजाः, अतः शुभध्यानाग्निना ज्वलति, 'पुव्वरत्तावर' त्ति पूर्वरात्रश्च रात्रेः पूर्वभागः अपरात्रश्च रात्रेः पश्चिमो भागस्तलक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र धर्मजागरिकां जाग्रतः कुर्वत इत्यर्थः, 'तं अस्थि ता मे 'ति तदेवमप्यस्ति तावत् 106~ २ शतके १ उद्देशः
SR No.035061
Book TitleSavruttik Aagam Sootraani 2 01 Bhagavati Mool evam Vrutti Aagam 5 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy