________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||१०९ ||
दीप
अनुक्रम [१०९ ]
श्रीगच्छाचारलघुवृत्ती
॥ ३३ ॥
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||१०९ ||
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्तिः
जत्थ य एगा समणी एगो समणो य जंपए सोम ।। नियबंधुणावि सद्धिं तं गच्छ गच्छगुणहीणं ॥ १०९ ॥ जत्थ य० ॥ यत्र चोत्सर्गेणैकाकिनी श्रमणी -मुण्डी एकाकिना निजबन्धुनाऽपि सार्द्धं जल्पति, यद्वा एकाकी साधुनिजभगिन्याऽपि सार्द्धं जल्पति हे सौम्य ! हे गौतम! तं गच्छ गच्छगुणहीनं जानीहि । यत एकाकिन्या सार्द्धं जल्पनेन बहुदोषोत्पत्तिर्भवति, कामवृत्तिमलिनत्वादिति । तथा च साध्वीनां जल्पनेन प्रीत्यादयो भवन्ति, उक्त "संदसणेण पीई १ पीईड रई २ रईड वीसंभो ३ । वीसंभाओ पणओ ४ पणयावि अ भवइ पडिबंधो ५ ॥ १ ॥ " साध्वीनां संदर्शनेन साधूनां प्रीतिरुत्पद्यते १ प्रीत्या चित्तसमाधानं २, ततो विश्रम्भो विश्वासः ३, विश्वासात्प्रणयः स्नेहः ४, तस्मात्प्रतिबन्धः ५ ॥ १ ॥ "जह जह करेसि नेहं तह तह नेहो अ वहुइ तुमंसि । तेण नडिओमि बलियं जं पुच्छसि दुब्बलतरोसि ॥ १ ॥" हे साध्वि ! यथा यथा त्वं मम स्नेहं संपादयसि तथा २ मम त्वयि स्नेहो वर्द्धते तेन कोहेन नदितोऽस्मि यत्त्वं पृच्छसि दुर्बलतरोऽसि ॥ २ ॥ “ इय संदंसणसंभासणेण संदीविओ मयणवण्ही । बंभाई गुणस्यणे डहर अणिच्छेवि पमयाओ ॥ १ ॥” इति स्त्रीणां रण्डाकुरण्डादीनां साध्वीनां मुण्डीवेषधारणीनां साधुसंयमनृपविषकन्यकानां च संदर्शन संभाषणेन संदीपितो मदनवह्निर्ब्रह्मचर्यादीन् गुणरलान् प्रमादात् अनिच्छतोऽपि साधोदहतीति ॥ १०९ ॥
जत्थ जयारमयारं समणी जंपर गिहत्थपञ्चक्खं । पचक्खं संसारे अजा पक्खिवर अप्पानं ॥ ११० ॥ जथ० ॥ यत्र यकारं जकारं वा मकारं च तत्र यकारजकारे यथा दुष्टस्तवयोनिर्येन त्वमुत्पन्ना याहि शठेन सार्द्ध
~369~
श्रमण्या
आलापवजेन जकारमकारवर्जनं गा. १०९-१० २०
२५
| ॥ ३३ ॥