________________
आगम
(३०- वृ)
प्रत सूत्रांक
||28
-८२||
दीप
अनुक्रम
[८१-८२]
“गच्छाचार” – प्रकीर्णकसूत्र -७ (मूलं + वृत्ति:)
मूलं ||८१-८२||
मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्तिः
शस्त्रग्रहणं विषभक्षणं भस्मीकरणं जलप्रवेशनं भृगुपातादिकरणं कारणं विना तन्मोहभावना ५। 'नाहियवायं ति नास्तिकवादः, यथा नास्ति जीवः नास्ति परलोकः नास्ति पुण्यं नास्ति पापं इत्यादिकं 'नाहियवायं'ति मायया परविप्रतारणवचनं वा 'न क्रियते' न विधीयते साधुभिर्यत्र गणे, तथा 'धावनं' सामान्येन वक्रगत्या गमनं, यद्वा 'धावनं' अकाले कारणं विना वर्षाकल्पादिक्षालनं 'डेवनं' वेगेनाश्ववद्गमनं कोशिकतापसवत्, 'लङ्घनं 'वाहादिकोलङ्घनं अर्हन्मित्रसाधुवत्, यद्वा 'लङ्घनं' परस्परकलहेन क्रोधादिना श्राद्धोपरि वाऽन्नपानादिमोचनं, 'ममकारः' ममताकरणं वस्त्रपात्रोपाश्रयश्राद्धादिषु 'अवर्णोच्चारणं' अवर्णवादकथनमर्हदादीनामिति ॥ ८२ ॥
जत्थित्थीकरकरिसं अंतरिअं कारणेऽवि उपपन्ने । दिट्ठीविसदित्तग्गीविसं व वज्जिज्जए गच्छे ॥ ८३ ॥ जत्थित्थी ० ॥ यत्र गणे 'स्त्रीकरस्पर्श' साध्वी हस्तसङ्घट्टनं, उपलक्षणत्वात्पादादिसंहनं 'अंतरिअ' मिति विना 'कारणे'ति कारणं, अत्र द्वितीयार्थे सप्तमी, कण्टकरोगोन्मत्तादिलक्षणं, 'अपि' समुच्चये, किंभूतं कारणं १-'उत्पन्नं' संजातं, दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छः, यद्वा यत्र स्त्रीकरस्पर्श - गृहस्थरामाकरपादादिसङ्घट्टनं 'अन्तरे' वस्त्रादिव्यवधाने, अत्र प्राकृतत्वाद्विभक्तिपरिणामः, कारणे उत्पन्नेऽपि दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छ इति ॥ ८३ ॥ बालाए बुड्ढाए नत्तुअदुहिआइ अहब भइणीए । न य कीरह तणुफरिसं गोयम ! गच्छं तयं भणियं ॥ ८४ ॥ बालाए०|| 'बालायाः अप्राप्तयौवनायाः 'वृद्धायाः' स्थविरायाः उपलक्षणत्वान्मध्यमायाः एवंविधायाः 'नप्तृकायाः सुतसुतायाः 'दुहितृकायाः सुतासुतायाः अथवा 'भगिन्याः' याम्याः उपलक्षणत्वान्मातुः पुत्र्याः कलत्रस्येत्यादिग्रहणं
~354~
स्त्रीस्पर्शकजनम् गा. ८३-८४
५
१०
१४