________________
आगम
(३०- वृ)
प्रत
सूत्रांक ||७४||
दीप
अनुक्रम
[७४]
श्रीगच्छा
चारलघु
॥ २३ ॥
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||७४ ||
मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्तिः
नादिकारी गच्छः गा. ७४
कालातिक्रान्ते क्षेत्रातिक्रान्ते अनुगतेऽस्तमिते वा गृहीते कारणगृहीते उद्धरिते या भक्तादिके विवेकः प्रायश्चित्तं त्यजन् ४ आलोचशुद्ध इत्यर्थः ५, नौनदीसन्तारसावद्यस्वमादिषु कायोत्सर्गः प्रायश्चित्तं ४, पृथ्व्यादीनां संघट्टादौ तपः प्रायश्चित्तं ६, यः | षण्मासक्षमकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा किं ममानेन प्रभूतेनापि तपसा क्रियत इति तपःकरणासमर्थो वा ग्लानाऽसहबालवृद्धादिः तथाविधतपःश्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वा भवति तस्य छेदः प्रायश्चित्तं, अहोरात्रपञ्चकदशकादिक्रमेण पर्यायच्छेदः क्रियत इति भावः ७, आकुट्टया पश्चेन्द्रियवधे दर्पेण मैथुने उत्सन्नविहारे इत्यादी मूलं प्रायश्चित्तं पुनर्प्रतारोपणमिति भावः, भिक्षोर्नवमदशमप्रायश्चित्ता पत्तावपि मूलमेव दीयते ८, स्वपक्षे परपक्षे वा निरपेक्षप्रहारिणि करादिघातके वा अर्थादाने इत्यादी अनवस्थाप्यार्ह प्रायश्चित्तं यावदुत्कृष्टं तपों नाचीर्णं तावद् प्रतेषु न स्थाप्यते पश्चात्तु स्थाप्यत इति भावः, एतत्प्रायश्चित्तमुपाध्यायस्यैव दीयते ९, तीर्थकरादीनां बहुश आशातनाकारिणि नृपघातके नृपाग्रमहिषीप्रतिसेवके स्वपरपक्षकपायविषयप्रदुष्टे स्त्यानार्द्धनिद्रावति पाराश्चिकप्रायश्चित्तं स त्वव्यक्तलिङ्गधारी जिनकल्पिवत् क्षेत्राद्वहिः स्थाप्यते द्वादश वर्षाणि, यदि प्रभावनां करोति तदा शीघ्रमेव प्रवेश्यते गच्छे शुद्धत्वात् इदं च प्रायश्चित्तमाचार्यस्यैव दीयते १० तत्रानवस्थाप्यस्तपः पाराचितकश्च प्रथमसंहननचतुर्दशपूर्वधरे गतौ, शेषाः पुनर्लिङ्गक्षेत्रकालानवस्थाप्यपाराश्चिता यावत्तीर्थं तावद्भविष्यन्तीति ॥ ७४ ॥ अथ जीवरक्षादिद्वारेण गच्छस्वरूपमाह
पुढविद्गअगणिमारुन वाउवणस्सइतसाण विविहाणं । मरणंतेऽवि न पीडा कीरह मणसा तयं गच्छं ॥७५॥
~349~
२०
२५
॥ २३ ॥
२८