________________
आगम
(३०- वृ)
प्रत
सूत्रांक ||७०||
दीप
अनुक्रम
[७०]
श्रीगच्छाचारलघुवृत्ती
॥ २० ॥
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||७०|| ----
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र -[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
भूतहृदयां यक्षाविष्टां उन्मादप्राप्तां उपसर्गप्राप्तां संयत्या गृहस्थेन वा समं साधिकरणां सप्रायश्चित्तप्रायश्चित्तभयेन विषण्णां प्रायश्चित्तं वहन्तीं तपसा क्लान्तां वा सर्वाङ्गीणं धारयन् देशतः साहयन् वा स्थानाङ्गपञ्चमस्थान कोकसभयादिकारणैरेकत्र तिष्ठन्नपि 'नयसरिसो'त्ति नयसदृशो भवति साधुः कोऽर्थः १ - यथा नैगमादिभिः सप्तभिर्नयैः सूत्रं व्याख्यायमानं आज्ञां नातिक्रामति, एवमत्रापि जिनाज्ञां नातिक्रामति साधुः । तथा 'जाण असिलेसो'त्ति 'अश्लेषः' अबन्धकः 'जाण' ति ज्ञातव्यः, आर्षत्वात्तव्यप्रत्ययलोपोऽत्र, अशुभकर्मबन्धकारको न भवतीत्यर्थः । अस्या गाथाया अन्याऽपि यथागमं व्याख्या कार्येति ॥ ७० ॥ पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाह
वायामितेणवि जत्थ भट्टचरित्तरस निग्गहं विहिणा । बहुलद्विजुअस्सावी कीरह गुरुणा तयं गच्छं ॥ ७१ ॥
वाया० ॥ वाच्मात्रेणापि, आस्तां क्रियया, भ्रष्टचारित्रस्य विधिना निग्रहं यत्र क्रियते यद्वा बहुलब्धियुक्तस्यापि स गच्छः, 'वाङ्मात्रेण' वचनव्यापारेण रे कुशील ! रे अपण्डित ! रे जिनाज्ञाभञ्जक ! रे सद्गच्छमर्यादावल्लीकन्दकुदाल ! इत्यादिना, अपिशब्दान्मनसा यथाऽयं न संयमगुणकारी अतः शिक्षा देयेत्यादिचिन्तनेन कायेन - करचालनशिरः कम्पनादिना यत्र गणे, कस्य १- 'भ्रष्टचारिस्य' शिथिलसंयमस्य 'निग्रहः' दण्डः 'विधिना' सूत्रोक्तप्रकारेण कथंभूतस्य १- बहुलब्धियुक्तस्यापि' आमशषधिविण्मूत्रौषधिश्लेष्मौषध्यादिसहितस्यापि क्रियते' विधीयते 'गुरुणा' स्वधर्माचार्येण 'तयं'ति स गच्छः किञ्चिलब्धिस्वरूपं यथा - " आमोसहि १ विप्पोसहि २ खेलोसहि ३ जलओसही ४ चेव । सङ्घोसहि ५ संभिन्नसोय ६ ओही ७ रिउ ८ बिडलमइलद्धी ९ ॥ १ ॥ चारण १० आसीविस ११ केवली य १२ गणधारिणो १३ य पुबधरा १४ ।
अथ उत्तम' गच्छ' स्वरुपम् वर्णयते
~343~
भ्रष्टनियाहको गच्छः
गा. ७१
२०
२५ ॥ २० ॥