________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||५७||
दीप
अनुक्रम
[५७]
श्रीगच्छाचारलघु
वृत्ती
॥ १७ ॥
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||५७ ||
मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्तिः
स आहार एव उदरकुकुटी, उदरपूरका हार इत्यर्थः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं, तत्प्रमाणं कवलस्य १, गल एव कुकुटी तस्या अन्तरालमण्डकं, अयं भावः - अविकृतास्यस्य पुंसो गलान्तराले यः कवलोsविलग्नः प्रविशति तत्प्रमाणं कवलस्य, भावकुकुटी तु येनाहारेण भुक्तेन न न्यूनं नाप्यत्याघ्रातं स्यादुदरं धृतिं च समुद्रहति तावत्प्रमाण आहारो भावकुकुटीति २ । यद्वा 'जायमजायाहारे'त्ति जाताजाताहारपारिष्ठापनिकायां कुशलाः- निपुणा इत्यर्थः, तत्राधाकर्मणा | लोभाद्गृहीतेन विषमिश्रेण मन्त्रादिसंस्कृतेन दोषेण च जातोच्यते, आचार्यग्लानप्राघूर्णकार्थे दुर्लभद्रव्ये सहसालाभे सत्यधिकग्रहणेऽजातोच्यत इति । अथवा जातो- गुरुग्लानादियोग्य आहार उत्पन्नस्तद्रक्षणे निपुणाः, तत्र वा निःस्पृहाः, अजातो- गुरुग्लाना दियोग्य आहारः अनुत्पन्नस्तदुत्पादने कुशला इति । तथा 'द्विचत्वारिंशदेपणा कुशलाः' तत्रैषणा चतुर्धा, कस्याप्येषणेति नामेति नामैषणा १, एषणावतः साध्वादेरियमेपणेति स्थापनेति स्थापनेषणा २ द्रव्यैषणा-सचि उत्ताचित्तमिश्रद्रव्यभेदात्रिधा ३, भावेषणाऽपि गवेषणा १ ग्रहणैषणा २ ग्रासपणा ३ भेदात्रिधा, तत्र गवेषणायामाधा| कर्मादिधात्र्यादिद्वात्रिंशद्दोषाः, ग्रहणैषणायां शङ्कितादिदशदोषाः, ग्रासैषणायां संयोजनादिपश्चदोषा विज्ञेया इति ॥५७॥ तंपि न रूवरसत्थं न य वण्णत्थं न चैव दप्पत्थं । संजमभरवहणत्थं अक्खोवंगं व वहणस्थं ॥ ५८ ॥
पि न० ॥ 'तमपि' आहारं न 'रूपरसार्थे' तत्र रूपं - शरीरलावण्यं रसश्च भोजनास्वादस्तदर्थं न 'न च वर्णार्थ' न च शरीरकान्त्यर्थमित्यर्थः, 'न चैव दर्पार्थ' न चानङ्गवृद्ध्यर्थं भुञ्जीतेति शेषः, किन्तु 'संयमभरवहनार्थे' चारित्रभारवहनार्थ
~337~
सद्गच्छलक्षणम् गा. ५८
२५
॥ १७ ॥ २७