________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||५४||
दीप
अनुक्रम
[ ५४ ]
श्री गच्छा भारलघुवृत्ती
॥ १६ ॥
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||५४|| ----
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र -[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
सद्गच्छलक्षणम् गा.
खर० ॥ खरपरुपकर्कशया गिरा अनिष्टदुष्टया गिरा निष्ठुरगिरा निर्भर्त्सन निर्द्धाटनादिभिश्च, मोडलाक्षणिकः, 'ये' मुनयो 'न प्रद्विष्यन्ति' न प्रद्वेषं यान्ति ते सुसाधवो गणयोग्या इति, तत्र खरा रे मूढ ! रे अपण्डित ! इत्यादिका, परुषा रे प्रमादिन् ! रे कुशील ! रे सामाचारीभञ्जक ! इत्यादिका, कर्कशा रे जिनाज्ञाभञ्जक ! रे उत्सूत्रभाषक ! ५४-५ रे व्रतभञ्जक ! इत्यादिका, अनिष्टा रे पापिष्ठ ! मुखं मा दर्शय, रे निर्दय । इतो व्रज, रे वीरवचनोलङ्घक ! स्वस्थानं कुरु इत्यादिका, दुष्टा रे आचारतस्कर ! रे जिनप्रवचन नगरप्राकारच्छिद्रकर्त्तः ! रे जिनागमकोशार्थरत्नचौर ! इत्यादिका, निष्ठुरा रे सूत्रार्थोभयप्रत्यनीक! रे निह्नवकुशीलसङ्गकर्त्तः ! रे जिनाज्ञाराम च्छेदक ! इत्यादिका, निर्भर्त्सनम् - अङ्गुल्यादिना तर्जनं, निर्द्धाटनं - वसतिगणादिभ्यो निष्काशनं, आदिशब्दात्तच्चिन्ताकरणादिकं, यद्वा प्रवाहेणैकार्थिका एते शब्दाः, यद्वाऽभ्योऽपि यः सत्परम्परागतोऽर्थः स सङ्ग्राह्य एवेति ॥ ५४ ॥
अन अकित्तिजण नाजसजणए नाकज्जकारी य । न पवयणुड्डाहकरे कंठग्गयपाण सेसेऽवि ॥ ५५ ॥ जे अ० ॥ 'ये' गणमुनयः नाकीर्त्तिजनकाः नायशोजनकाः, चकारान्नावर्णजनकाः, नाशब्दजनकाः नोऽश्लाघाजनकाः, तत्र सर्वदिग्व्याप्यसाधुवादोऽकीर्त्तिः, अयशो- निन्दनीयतादि, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिग्व्याप्यसाधुवादोऽशब्दः, तत्स्थान एवासाधुवादोऽश्लाघेति, 'नाकार्यकारिणः' नासदनुष्ठानकर्त्तारः 'न प्रवचनोड्डाहकराः न प्रवचनमालिन्यकर्त्तारः, कण्ठे गतः प्राप्त आगत इत्यर्थः कण्ठगतः प्राणानां जीवस्य शेषो यत्र, अधस्तनप्रदेशाकर्षणेन
~ 335~
२०
२५
॥ १६ ॥
२७