________________
आगम
(३०- वृ)
प्रत
सूत्रांक
||५२||
दीप
अनुक्रम [५२]
श्रीगच्छा
चारलघुवृत्ती
॥ १५ ॥
1964 ৬6
“गच्छाचार” – प्रकीर्णकसूत्र - ७ (मूलं + वृत्ति:)
मूलं ||५२ || ----
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [ ३० वृ], प्रकीर्णकसूत्र -[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
गुरुणो छंदणुवन्ती सुविणीए जियपरीसहे धीरे । नवि थडे नवि लुद्धे नवि गारविए न विगहसीले ।। ५२ ।। 'गुरोः' स्वाचार्यस्य 'छन्दोऽनुवृत्तयः' अभिप्रायानुचारिणो, न स्वाभिप्रायचारिणः, 'सुविनीताः' शोभनविनययुक्ताः जिता:- पराजिताः परीपहाः शीतोष्णा यैस्ते जितपरीपहाः, उक्तं चाचाराङ्गनिर्युक्तौ " इत्थीसकारे परीसहा य दो भावसीयला एए। सेसा बीसई उण्हा परीसहा होंति णायचा ॥ १ ॥ जे तिबपरीणामा परीसहा ए भवंति उन्हा उ । जे मंदपरीणामा परीसहा ते भवे सीया ॥ २ ॥" तथा च ज्ञानावरण १ वेदनीय २ मोहनीया ३ न्तरायेषु ४ श्रुत्पिपासा २ शीतोष्ण ४ दंशा ५ वेला ६ रति ७ स्त्री ८ चर्या ९ नैषेधिकी १० शय्या ११ ऽऽक्रोश १२ वध १३ याचा१४ इलाम १५ रोग १६ तृणस्पर्श १७ मल १८ सत्कार १९ प्रज्ञा २० ऽज्ञान सम्यक्त्व २२ लक्षणा द्वाविंशतिरप्यवतरन्ति यथा दर्शनमोहे सम्यक्त्वपरीषहः, तदुदये तस्य भावात् १, प्रज्ञाऽज्ञाने द्वे ज्ञानावरणे ३, अलाभोऽन्तराये ४, आक्रोशारतिस्त्रीनैषेधिक्यः अचेलयाञ्चासत्कारपुरस्काराः सप्त चारित्रमोहेऽवतरन्ति ११, क्षुत्पिपासा २ शीतोष्ण४ दंश ५ चर्या ६ शय्या ७ मल ८ व ९ रोग १० तृणस्पर्श ११ एते एकादश वेदनीयोदये भवन्ति, शेषेषु दर्शनावरणनामायुगत्रेषु नास्त्यवतारः परीषहाणामिति । तथा नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः संभवन्ति, पुनर्वेदयति विंशतिमेव, यतो यस्मिन् समये शीतं वेदयति न तस्मिन् समये उष्णत्वं वेदयति, यस्मिनुष्णं तस्मिन् शीतं न, तथा यस्मिन् चर्या वेदयति तस्मिन् नैषधिकीं न, यस्मिन् नैषेधिक तस्मिन् चर्या न वेदयतीति । सूक्ष्मसंपराये-दशमगुणस्थाने क्षुत्पिपासाशीतोष्णदंशचर्याशय्यावधा लाभरोग तृणस्पर्शमलप्रज्ञाऽज्ञानरूपाश्चतुर्दश भवन्ति, द्वादश पुनर्वेदयति,
अत्र सद्गच्छस्य लक्षणं कथयते
~333~
सद्गच्छल
क्षणम् गा.
५२
२०
२५
॥ १५ ॥
२८