________________
आगम | (३०-व)
“गच्छाचार" - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:) -------------------------------------- मूलं ||१४||--------------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्ति:
प्रत सूत्रांक ||१४||
RAKAR
दीप
3 देसं०॥ 'देश' मालवकादिकं 'क्षेत्रं' रूक्षारूक्षभाविताभावितादिरूपं तुशब्दाद् गुरुग्लानबालवृद्धमाघूर्णादियोग्यं द्रव्यं ज न
दुर्भिक्षादिकालं च ज्ञात्वा 'वस्त्रं' आचाराङ्गायुक्तविधिना चीवरं, 'पात्रं' पतवहादिकं 'उपाश्रयं स्त्रीपशुपण्डकवर्जितमुनि-8 का गा. योग्यालयं संगृहीत, तथा चोक्तं स्थानाङ्गसप्तमस्थानके-आचार्योऽनुत्पन्नान्युपकरणानि सम्यगुत्पादयिता भवति, पूर्वो- १५-१६ त्पन्नान्युपकरणानि सम्यक् संरक्षयिता उपायेन चौरादिभ्यः संगोपयिता अल्पसागरिककरणेन मलिनतारक्षणेन चेति, तथा साधूनां वर्गो-वृन्दं साधुवर्गस्तं, चशब्दात्साध्वीवर्ग च नतु हीनाचारवर्ग, तथा सूत्र-गणधरादिबद्धं तस्यार्थो-नियुतिभाष्यचूर्णिसङ्ग्रहणिवृत्तिटिप्पनादिरूपः सूत्रं चार्थश्च सूत्रार्थ 'निभालयति' जिनोपदेशेन चिन्तयतीत्यर्थः, चशब्दात्सुवि
नीतविनेयवर्ग जिनगणधराज्ञया पाठयति, अविनीतविनेयं प्रति नार्पयति प्रायश्चित्तापत्तेः, एवंविध आचार्यों मोक्षमार्गदावाहका कथितः ॥ १४ ॥ अथ मोक्षमार्गभञ्जकः कथ्यते
संगहोवग्गहं विहिणा, न करेइ अ जो गणी । समणं समणिं तु दिक्खित्ता, सामायारिं न गाहए ॥१५॥४
बालाणं जो उ सीसाणं, जीहाए उवलिंपए। न सम्ममग्गं गाहेइ, सोसूरी जाण वेरिओ ॥१६॥ द संग० ॥ सङ्ग्रह-ज्ञानादीनां सच्छिष्याणां वा संग्रहणं, उपग्रहं च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं 'विधिना उत्सर्गापवादप्रकारेण न करोति स्वयं प्रमादमदिराग्रस्तत्वेन चशब्दान्न कारयति कुर्वन्तमन्यं द्वेषयति यः कश्चित् 'गणी'| आचार्याभासः, तथा श्रमणं च श्रमणी 'दीक्षित्वा' व्रतारोपं विधाय 'सामाचारी' 'जयं चरे जयं चिढे' इत्यादिरूपां
अनुक्रम
[१४]
अथ मोक्षमार्गभजक: कथ्यते
~314~