________________
आगम
(२८-व)
"तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
------------------- मूलं [१९.../गाथा ||१२२-१२९|| -------------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-वृ), प्रकीर्णकसूत्र-[५] "तंदुलवैचारिकं" मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
सूत्रांक
[१९..]
+
॥१२२-१२९||
15555552%
| 'असिमसि' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् !-असिमषीसदृक्षीणां-करवालकजलतुल्यानां, अय- स्त्रीस्वरूपमाशयः-यथा खड्गः पण्डितेतरान् नरान् निर्दयतया छेदयति तथाऽनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन पद्यानि छेदयन्ति, यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तधोन्मत्तनारी स्वभा- १२२-९ वेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुत्तमानामपि कृष्णत्वमुत्पादयति यशोधनक्षयराजविटम्बना|दिहेतुत्वात् , पुनः किंभूतानां ?-कान्तारकपाटचारकसमानां-अरण्यकपाटकारागृहतुल्यानाम् , अयमाशयः-यथा गहन| वनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोल्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते सति केनापि कुत्रापि धर्मवनादौ गन्तुं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति, पुन किंभूतानां ?'घोरनि०' घोरो-रौद्रः प्राणनाशहेतुत्वात् निकुरम्ब-घनमगाधमित्यर्थः यत्कमिति-जलं तस्मादिव दरो-भयं यस्मात् । ४ भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन्-पुरुषं पुरुष
प्रति भ्रमन् बीभत्सो-भयङ्करः, इह परत्र महाभयोत्पादकत्वात्, एवंविधो भाव:-आन्तरमायावत्रस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलबीभत्सभावास्तासां घोरभावानाम् १ 'दोससय.' दोषशतगर्गरिकाणां दोषाः-परस्परकलह- ॥ ५३॥ मत्सरगालिप्रदानमर्मोद्घाटनकलङ्कप्रदानाजल्प्यजल्पनशापप्रदानस्वपरप्राणघातचिन्तनादयस्तेषां शतानि तेषां गर्गरिकाः-3 भाजनविशेषास्तासां दोषशतगर्गरिकाणां, 'अजस' यशसः शतानि यशःशतानि न यशाशतान्ययशःशतानि ,
दीप अनुक्रम [१४४-१५१]
JANEditutioni
~295