________________
ུཏྟཱ ཝཱ ཙྪཎཱ + རྫལླཱསྶ ེ་
(२८-वृ)
“तन्दुलवैचारिकं” – प्रकीर्णकसूत्र - ५ ( मूलं + अवचूर्णि:)
मूलं [ १७... ]/ गाथा ||८८-११२||
मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र- [ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं” मूलं एवं विजयविमल गणि कृता अवचूर्णि:
Jass Education
कथम् ? - वकार इवार्थे, इवोत्प्रेक्षते, फुलं-प्रफुलं विकसितमित्यर्थः नीलोत्पलवनं- इन्दीवरकाननम् ॥ ५ ॥ कित्तिय० ' कियन्मात्रं - कियत्प्रमाणं 'वन्ने'त्ति वर्णयामि शरीरे - वपुषि, किंभूते ? - अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये - गुथात्मके | इत्यर्थः, वर्चस्कसङ्घाते - परमापवित्रविष्ठा समूहे 'विरागमूले'त्ति विरुद्धो रागः विरागः मनोजराग इत्यर्थः तस्य मूलं कारणं | कामासक्तानामङ्गारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव यद्वा विगतो-गतो रागो-मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं कारणं, काष्ठश्रेष्ठेरिव ( श्रेष्ठिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्त्तव्यः, स्थूलभद्रवज्रखामिजम्बूस्वाम्यादिवत् || ६ || 'किमि०' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे' त्ति अशुचिके - अपवित्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकर्तुमशक्यत्वात्, अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात्, असारे- सारव - जिते 'सेयमलपुवडंमि त्ति दुर्गन्धस्वेदमलचिगचिगायमाने, एवंविधे शरीरे हे जीवाः ! यूयं निर्वेदं वैराग्यं व्रजतगच्छत, विक्रमयशोनृपस्येवेति ॥ ७ ॥ 'दंतम० दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थः लालामलबहुले एतादृशे बीभत्से- जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः १ ॥ ८ ॥ ' को सड० ' देहे - शरीरे कः अभिलापः - वाञ्छा ?, किंभूते ? - शटनपतनविकिरणविध्वंसनच्यवन मरणधर्मे, तत्र शटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्रादेः खड्गच्छेदादिना विकिरण- विनश्वरत्वं विध्वंसनं- रोगज्वरादिना जर्जरीकरणं च्यवनं - हस्तपादादेर्देशक्षयः मरणं सर्वथा क्षयः, पुनः किंभूते ? - कुथित कठिन काष्ठभूते - विनष्टकर्कशदारुतुल्ये ॥ ९ ॥ ' कागसु०' देहे को रागः १, किंभूते ? - काकश्वानयोः - घूकारिभषणयोः भक्ष्ये-खाद्ये कृमिकुलभते च व्याधिभ के च मत्स्यभक्ते च क्वचिन्मन्छु
Fur Prate & Pomonal Use Only
~ 272~
jainelibrary.org