________________
आगम
(२८-वृ)
प्रत
सूत्रांक
[१७]
||८३
-८४||
दीप
अनुक्रम
[१०३
-१०५]
“तन्दुलवैचारिकं” – प्रकीर्णकसूत्र - ५ ( मूलं + अवचूर्णि:)
मूलं [१७] / गाथा || ८३-८४||
मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र- [ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं” मूलं एवं विजयविमल गणि कृता अवचूर्णि:
तं. वै. प्र.
॥ ३९ ॥
Jass Education
तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च - मस्तकस्नेहः शोणितं च रुधिरं द्वितीयो धातुरित्यर्थः वालुण्डकश्च अन्तरशरीरावयवविशेषः चर्मकोशश्च - छविकोपः नासिकासिङ्घानश्च प्राणमलविशेषः धिलं चअन्यदपि शरीरोद्भवं निन्द्यमले तानि तेषामालयं गृहमित्यर्थः अमनोज्ञकं मनोज्ञभाववर्जितं शीर्षघटी-करोटिका तया भञ्जितं - आक्रान्तमित्यर्थः, गलन्नयनं कर्णोष्ठगण्डतालुकं अवालुया इति लोकोक्त्या अवालुखिलश्च खील इति जनोक्तिः ताभ्यां चिकणं- पिच्छलमित्यर्थः 'चिलिचिलिय' मिति चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं तेन 'महल' त्ति मलिनं- मलीमसमित्यर्थः, बीभत्सं भयङ्करं दर्शनं -आकृतिरवलोकनं वा रोगादिना कृशावस्थायां यस्य वपुपस्तद् वीभत्सदर्शनं, 'अंसलग'त्ति अंसयोः स्कन्धयोः 'बाहुलग'त्ति बाह्वोः भुजयोः अङ्गुलीनां-करशाखानां 'अंगुट्ठग' ति अङ्गुष्ठयोरङ्गुलयोः नखानां - महाराजानां ( करजानां ) ये सन्धयस्तेषां सङ्घातेन समूहेन सन्धितमिदं वपुः 'बहु०' बहुरसिकागारं 'नालखं०' नालेन स्कन्धशिराभिः - अंसधमनीभिः 'अणेगण्हारु'त्ति अनेकस्नायुभिः - अस्थिब न्धनशिराभिः बहुधमनिभिः - अनेकशिराभिः सन्धिभिः- अस्थिमेलापकस्थानैश्च 'नद्धं'ति नियन्त्रितं प्रकटं - सर्वजनदृश्य|मानमुदरकपालं - जठरकडहलकं यत्र तत्प्रकटोदरकपालं, कक्षैव-दोर्मूलमेव निष्कुटं - कोटरं जीर्णशुष्कवृक्षवद् यत्र तत् कक्षनिष्कुटं कक्षायां गच्छन्तीति कक्षागाः अधिकारात्तद्गतकुत्सितवालास्तैः कलितं सदा सहित कक्षागकलितं यद्वा कक्षायां भवाः काक्षिकाः - तद्गतकेश लतास्ताभिः कलितं, 'दुरंतं'ति दुष्टः अन्तो- विनाशः प्रान्तो वा यस्य तद्दुरन्तंदुष्पूरं, अस्थिधमन्योः सन्तानेन परम्परया 'संतयं'ति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं सर्वतः - सर्वप्रकारैः
For Pale & Pomonal Use Only
~267~
शरीरासुन्द
रता गा. ८३-८४ सू. १७
॥ ३९ ॥
jainelibrary.org