SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आगम (२८-वृ) प्रत सूत्रांक [१४] + ॥४९॥ दीप अनुक्रम [ ६४ ] “तन्दुलवैचारिकं” – प्रकीर्णकसूत्र - ५ ( मूलं + अवचूर्णि:) मूलं [१४] / गाथा ||४९...|| मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र- [ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं” मूलं एवं विजयविमल गणि कृता अवचूर्णि: तं. वै. प्र. ॥ २२ ॥ 'अकरंड्य'त्ति मांसोपचितत्वादविद्यमान पृष्ठिपार्श्वास्थिकमिव कनकरुचकं - काञ्चनकान्ति निर्मलं - स्वाभाविकमलरहितं ५ आगन्तुकमलरहितं च सुजातं मुनिष्पन्नं निरुपहतं - रोगादिभिरनुपहतं देहं - शरीरं धारयन्ति ये ते तथा, 'पसस्थबत्तीस ० ' छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ दामिणी रूढिगम्यं ५ कमण्डलु ६ कलशः ७ वापी ८ स्वस्तिकः ९ पताका १० यवः ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकरध्वजः १५ अङ्को - मृगः १६ स्थालं १७ अङ्कुशः १८ चूतफलकं १९ स्थापनकं २० अमरः २१ लक्ष्म्या अभिषेकः २२ तोरणं २३ मेदिनी २४ समुद्रः २५ प्रधानमन्दिरं २६ गिरि| वरः २७ वरदर्पणः २८ लीलायमानगजः २९ वृषभः ३० सिंहः ३१ चामरं ३२, एतानि प्रशस्तानि द्वात्रिंश लक्षणानि धारयन्ति ये ते तथा, कनकशिलातलमिव उज्ज्वलं प्रशस्तं समतलं - अविषमरूपं उपचितं -मांसलं विस्तीर्गपृथुलं - अतिविस्तीर्ण वक्षोहृदयं येषां ते तथा, श्रीवत्सेन अङ्कितं वक्षो येषां ते तथा, पुरवरस्य परिघा-अबद्धा अर्गला तद्वत् वर्तितौ-वृत्तौ भुजौ - ब्राह येषां ते तथा, भुजगेश्वरो-भुजगराजः तस्य विपुलो महान् यो भोगः-शरीरं तद्वत् आदीयत इत्यादानः- आदेयो रम्यो यः | परिघः- अर्गला 'उच्छूढ'त्ति स्वस्थानाद् अवक्षिप्तो निष्काशितः तद्वच्च दीर्घौ बाहू येषां ते तथा, युगसन्निभौ-यूपसदृशौ पीनौमांसलौ रतिदौ- रमणीयौ पीवरी-महान्तौ प्रकोष्ठौ कलाचिकादेशी, तथा संस्थिताः - संस्थान विशेषवन्तः उपचिताः - सुनिचिताः घनाः- बहुप्रदेशाः स्थिरा:- सुबद्धा स्नायुभिः सुष्ठु बद्धाः सुवृताः- अतिशयेन वर्तुलाः सुश्लिष्टाः सुघनाः उष्टाः-मनोज्ञाः पर्वसन्धयश्च पर्वास्थिसंधानानि येषां ते तथा, रक्ततली - लोहिताधोभागौ 'उवचिय'त्ति औपचयिकौ उपचयनिर्वृत्तौ उपचितौ वा मृदुकी-कोमली मांसवन्ती सुजाता - सुनिष्पन्नौ लक्षण प्रशस्ती - प्रशस्त स्वस्तिकचक्रगदाशंख कल्पवृक्ष - Pur Prate & Personal Use Oily ~ 233~ युगलिकस्वरूपं सू. १४ ॥ २२ ॥ jainelibrary.org
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy