SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (२८-वृ) ཊྛཡྻོཝཱ ཎྱོ + ཊྛཡྻཱ ཡྻ ॥४९॥ तं. वै. प्र. ॥ २१ ॥ “तन्दुलवैचारिकं” – प्रकीर्णकसूत्र - ५ ( मूलं + अवचूर्णि:) मूलं [१४] / गाथा ||४९...|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [२८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं मूलं एवं विजयविमल गणि कृता अवचूर्णि: कलक्षणानि - स्वस्तिकादीनि धारयन्तीति भोगलक्षणधराः सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि - अवयवाः यत्र तदेवंविधं सुन्दरं अङ्गं शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'रत्तुप्पल पडमकरचरणकोमलंगुलितल 'त्ति रक्तोत्पलवत् करचरणानां कोमला अङ्गुल्यो येषां ते तथा, तथा पद्मवत् करचरणानां कोमलानि तलानि - अधोभागा येषां ते तथा, नगः-पर्वतः नगरं प्रतीतं मकरो - मत्स्यः सागरः- समुद्रः चक्रं प्रतीतं अङ्कधरः- चन्द्रः अङ्कः- तस्यैव लाञ्छनं मृगः एवंरूपैर्लक्षणैरङ्कितानि तलानि - पादाघोभागाः येषां ते तथा सुप्रतिष्ठिताः सत्प्रतिष्ठानवन्तः कूर्मवत्-कच्छपवत् चारवः चरणा येषां ते तथा, आनुपूर्व्या परिपाव्या वर्द्धमाना हीयमाना वा इति गम्यते, सुजाताः - सुनि| ष्पन्नाः पीवराः अङ्गुलिकाः - पादाग्रावयवाः येषां ते तथा, उन्नताः तुङ्गाः तनवः - प्रतलाः ताम्रा- अरुणाः स्निग्धाः - कान्ति मन्तो नखा येषां ते तथा, संस्थितौ संस्थानविशेषवन्तौ सुलिष्टी-मांसल गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फौ - घुटकी येषां ते तथा, आनुपूर्व्येण परिपाव्या वर्धमाना हीयमाना वा इति गम्यते, एणी - हरिणी तस्याश्चेह जङ्घा प्राद्या, कुरुविन्दं-तृणविशेषः बत्ता च सूत्रवलनकं एतानीव वृत्ते वर्तुले आनुपूर्व्येण स्थूलस्थूलत्वेनेति गम्यं, जसे- प्रसृते येषां ते तथा समुद्गस्येव- समुद्गकपक्षिण इव निमग्ने अन्तः प्रविष्टे गूढे - मांसलत्वादनुपलक्ष्ये जानुनी - अष्ठीवन्तौ येषां ते तथा, गजो-हस्ती 'ससण'त्ति श्वसिति प्राणिति अनेनेति श्वसन:-शुण्डादण्डः गजस्य श्वसनः गजश्वसनस्तस्य सुजातस्य- सुनिष्पन्नस्य सन्निभे-सदृशे ऊरू येषां ते तथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः सदृशो विक्रमः - पराक्रमो | विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, सुजातवरतुरगस्येव सुगुप्तत्वेन गुह्यदेशो-लिङ्गलक्षणोऽवयवो येषां Fur Prate & Pomonal Use Only ~231~ युगलिक • स्वरूपं सू. १४ ॥ २१ ॥ jainelibrary.org
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy