________________
आगम
(२८-वृ)
प्रत सूत्रांक
||||
दीप
अनुक्रम
[3]
“तन्दुलवैचारिकं” – प्रकीर्णकसूत्र - ५ ( मूलं + अवचूर्णि:)
मूलं [-] / गाथा ||१||
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र- [ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं” मूलं एवं विजयविमल गणि कृता अवचूर्णिः
असाध्यव्याधिवत् अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्त इति । महांश्चासौ वीरश्च-कर्मविदारणसहिष्णुर्महावीरस्तम्, 'बुच्छ'ति वक्ष्ये भणिष्यामि प्रकीर्णकं श्रीवीरहस्तदीक्षितमुनिविरचितं नन्दीसूत्रोक्तग्रन्थविशेषमिदं- प्रत्यक्षं तन्दुलानां वर्षशतायुष्कपुरुषप्रतिदिनभोग्यानां सङ्ख्याविचारेणोपलक्षितं तन्दुलवैचारिकं नामेति ॥ १ ॥ मंङ्गलाचरणमभिधेयं च प्रतिपाद्यात्र द्वारगाथाद्वयमाह -
सुणह गणिए दह दसा वासस्याउस्स जह विभजंति । संकलिए बोगसिए जं चार्ज सेसयं होइ ॥ २ ॥ जत्तियमित्ते दिवसे जत्तियराईमुहुत्तमुस्सासे । गन्भंमि वसह जीवो आहारविहिं च वृच्छामि ॥ ३ ॥ 'सुणह० जन्तिय० ' अत्र पदानां सम्बन्धोऽयं वर्षशतायुषो जन्तोर्यथा दश दशा दशावस्थाः विभज्जन्ती'ति पृथग्भवन्ति तथा यूयं शृणुत, क्व सति?- गणिते - एकद्व्यादीति क्रियमाणे सति तथा दशदशा सङ्कलिते - एकत्र मीलिते तथा व्युत्कर्षिते - निष्कासिते सति 'वाससयं परमाउं इतो पन्नासं हरइ निद्दाए' इत्यादिना यच्चायुःशेषकं भवति तदपि यूयं श्रृणुत ॥ २ ॥ यावन्मात्रान् दिवसान् यावद्रात्रीयवन्मुहूर्त्तान् यावदुच्छ्रासान् जीवो गर्भे वसति तान् वक्ष्ये, गर्भादिके आहारविधिं चशब्दाच्छरीररोमादिस्वरूपं च वक्ष्ये भणिष्यामीति ॥ ३ ॥ तत्र गर्भे अहोरात्राणां प्रमाणमाहदुन्नि अहोरत्तसए संपुण्णे सत्तसत्तरिं चैव । गर्भमि वसइ जीवो अद्धमहोरत्तमण्णं च ॥ ४ ॥ एए तु अहोरता नियमा जीवस्स गन्भवासंमि । हीणाहिया उ इत्तो उवघायवसेण जायंति ॥ ५ ॥ 3 कमिदं अनन्तरमेव वक्ष्यमाणं तन्दुलानामित्यादि इत्यपि २ सामान्येन मङ्गलमभिधेयं चाभिधाय विशेषतोऽभिधेयप्रतिपादनाये
'तन्दुलवैचारिक' शब्दस्य व्याख्या,
Fur Prate & Pomonal Use Only
~195~
jainelibrary.org