________________
आगम
(२४-वृ)
प्रत
सूत्रांक
||&?||
दीप
अनुक्रम
[६१]
चतुःशरणे
॥ ७६ ॥
Jass Education
“चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
मूलं ||६१ || -----
मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र - [ २४/वृ], प्रकीर्णकसूत्र- [१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
मिति शेषः, सम्यग्मनोवाक्कायोपयुक्ततया, कथं भवतीत्याह - 'सुगईफलं'ति शोभना गतिः सुगतिः स्वर्गापवर्गरूपा सेव फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतां साधूनामुत्कर्षतो मोक्षं यावत् श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात्, 'सुकयफल' मिति पाठे तु सुकृतं पुण्यं शुभानुवन्धि तत्प्राप्तिः फल भवतीत्यर्थः ॥ ६१ ॥ अथ योऽतीव दुर्लभां मनुष्यत्वादिसामग्रीं प्राप्यापि चतुःशरणादि प्रमादादिना न कृतवान् तं शोचयति
चउरंगो जिणधम्मो न कओ चउरंगसरणमवि न कथं । चउरंगभवच्छेओ न कओ हा हारिओ जम्मो ॥ ६२ ॥
चत्वारि - दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्मः - अर्ह द्धर्मो न कृतो न विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात्, तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गं शरणमपि - अर्हत् सिद्धसाधुधर्मरूपमपि न कृतं तथा चतुरङ्गभवस्य-नरकतिर्यग्नरामरलक्षणस्य छेदो - विनाशो विशिष्टचारित्रतपश्चरणादिना न कृतो येनेत्यध्याहार्यं तेन 'हा' इति खेदे हारितं वृथा नीतं जन्म- मनुष्यभवः, प्राकृतत्यात्पुंस्त्वं, तस्य हारणं च अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्प्रापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति चतुरङ्गो जिनधर्मो मया न कृत इत्यादि
Fur Prate & Personal Use Oily
~188~
सुकृतानुमोदना
गा. ५५५८
॥ ७६ ॥
Jainelibrary.org