SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम (२४-व) “चतु:शरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ------------------- मूलं ||४१-४८||------------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व), प्रकीर्णकसूत्र-[१] “चतुःशरण मूलं एवं विजयविमलगणि कृता अवचूर्णि: A8% प्रत %A5-%E0 सूत्रांक ||४१ -४८|| नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नैरन्तर्येण सद्भावात् , तथा जन्म च जरा च |मरणं च व्याधयश्च जन्मजरामरणव्याधयस्तेषां शतानि तानि शमयतीति जन्मजरामरणव्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, 'समय'मिति पाठे तु जन्मजरामरणच्याधिशतानि सुष्ठु-अतिशयेन मृतानि-विनष्टानि | यस्मात्स तथा, सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टिजननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् बहुमतः सर्वस्याप्यतिशयेनाभीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमपि-द्वादशाङ्गरूपं पूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्न:-आश्रित इत्यर्थः ॥ ४५ ॥ प्रकर्षण कटुविपाकतादर्शनेनो|पशर्म नीतः कामस्य प्रकृष्टो मोहः-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात् , तथा दृष्टादृष्टे-दृष्टा-दृष्टविषया ये बादरैकेन्द्रियादयो जीवाः पुद्गलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः ल सर्वलोकवृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च, स्वर्गनरकादयो वा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषु न कलितो-न प्राप्तो विरोधो-विपरीतप्ररूपणारूपो येन स तथा तं, केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपावेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अत एव न मोघोऽमोघा-अवन्ध्यः सफल इत्यर्थः तमेवंप्रकारं धर्म शरणं प्रपन्नोऽहमिति ॥ ४६ ॥पापकारिणो नरान् कायन्ति-आयन्तीति नरका-रत्नप्रभादिषु सीमन्तकाद्यास्त एव गम्यन्ते इति गतिस्तत्र यद्गमनं तद् रुणद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानांक्षान्त्यादीनां संदोहः-समुदायो यत्र स तथा तं, तथा प्रकृष्टा वादिनः प्रवादिनः, निशब्दो निषेधार्थः, तैः प्रवादिभिः % A %A5ॐॐॐ4625 दीप अनुक्रम [४१-४८] 4 % AESAX ~179
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy