________________
आगम
(२४-वृ)
प्रत
सूत्रांक
||३०
-४०||
दीप
अनुक्रम [ ३०-४०]
“चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
मूलं ||३०-४० ||
मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र - [ २४/वृ], प्रकीर्णकसूत्र- [१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
चारी वा गुणसंदोहो- गुणनिकरो येषां ते तथा, एवंविधानां च ज्ञानातिशयः स्यादिति हतो मोह :- अज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ॥ ३५ ॥ खण्डितानि त्रोटितानि स्नेहरूपाणि दामानि-रज्जवः आर्द्रकुमारेणेव आत्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामो विषयाभिलाषो धामानि च-गृहाणि येषां छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा न विद्यन्ते कामधामानि - विषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम-स्थानं अकामधामाः, प्राकृतत्वात्पुंस्त्वं यत एवंविधा अत एव निष्कामं निर्विषयं यत्सुखं-मोक्षसंबन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्विषयस्यैव शिवशर्माभिलाषुकत्वात् मोक्षसुखाभिलाषिण इत्यर्थः, तथा सत्पुरुषाणां - आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनां मनः- चित्तमभिरमयन्ति-आनन्दयन्तीति सत्पुरुषमनोऽभिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवचनोतक्रियासु रमयन्ति - क्रीडयन्तीत्यात्मारामाः यद्वा आराममिव-भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हर्षहेतुत्वात्ते तथा, अथवा आचारं पञ्चप्रकारममन्ति- गच्छन्तीत्याचारामाः मन्यन्ते— बुध्यन्ते जगतः कालत्रयावस्थामिति मुनयः साधवस्ते शरणं भवन्तु ॥ ३६ ॥ 'मिल्हिअ'त्ति मिल्हिता :- अपास्ता विषयाः शब्दाद्याः कपायाश्च क्रोधाद्या यैस्ते तथा, विषयकपायरहिता इत्यर्थः तथा गृहं- अगारं गृहिणी- कलत्रं तयोः सङ्गः- संबन्धस्तस्माद्यः सुखास्वाद :- सुखानुभवः स उज्झितः परिहृतो यैस्ते तथा निष्परिग्रहा निस्सङ्गाश्चेत्यर्थः, तथा न कलितौ-नाश्रितौ हर्षविषादी-प्रमोदवैमनस्ये यैस्ते
Fur Prate & Pomonal Use Only
~ 173 ~