SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (२४-व) “चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) --------------------- मूलं ||३०-४०|| -------------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व), प्रकीर्णकसूत्र-[१] “चतुःशरण मूलं एवं विजयविमलगणि कृता अवचूर्णि: चतु:शरणे ॥६७॥ Rec साधुशरणं गा. ३०. प्रत सूत्रांक ||३०-४०|| उच्यन्ते, प्रवर्तकव्यापारितार्थेषु सीदमानान् साधून स्थिरीकुर्वन्तः स्थविराः, गच्छयोग्यक्षेत्रोपध्यादिसंपादनार्थ नवनवक्षेत्रविहारकारिणो गणावच्छेदकाश्च, ते च सर्वे केवलिप्रभृतिसाधवः शरणं भवन्तु ॥ ३२ ॥ तथा चतुर्दश पूर्वाणि विद्यन्ते | येषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः दशाद्यान्येव पूर्वाणि येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः, अन्त्यानि चत्वारि पूर्वाणि प्रायः समुदितान्येव व्युच्छिद्यन्ते इति चतुर्दशपूय॑नन्तरं दशपूर्विणोऽभिहिताः, तथा नवपूर्विण श्रीआलायरक्षितादयः, पूर्वीशब्दः स्थानत्रयेऽपि संबध्यते, तथा 'दुवालसत्ति अग्रेतनाङ्गीशब्दसंबन्धात् द्वादशानिनः, ननु चतुर्दशपूर्विणां द्वादशाङ्गिनां च को भेद इति चेद्, उच्यते, द्वादशमङ्गं दृष्टिवादः, स च परिकर्म १ सूत्र २ पूर्वानुयोग| पूर्वगत ४ चूलिका ५ भेदात्पञ्चविधः, पूर्वाणि च चतुर्दशापि पूर्वगतमध्ये सन्ति द्वादशाङ्गस्यैकदेशभूतान्येवेति पूर्वलाधरद्वादशाङ्गधरभेदसिद्धिः, तथा एकादशाङ्गिनश्च ये च, चकारो भिन्नक्रमसूचकः, संप्रति विशेषानुष्ठानिन आह-'जिण कप्प'त्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येव कल्पः-आचारो येषां ते जिनकल्पिका-दुष्करक्रियाकारिणः मा'अहालंदित्ति उदकाः करो यावता कालेन शुष्यति तत् जघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिन्दिवलक्षणं तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च| गृहपतिरूपाभिः पद्भिः वीथिभिजिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकपिकास्त्वेकमेव दिन सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः, तथा परिहारविशुद्धिकाश्च साधवः, ते चैवं-नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावत् चत्त्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्व दीप अनुक्रम [३०-४० ६७॥ ~170~
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy