________________
आगम
(२४-वृ)
प्रत
सूत्रांक
॥४॥
दीप
अनुक्रम
[8]
“चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
मूलं ||४||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ २४/वृ], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णिः
तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राक्शोधितयोरपि पुनर्विशेषेण शोधिः क्रियते इत्यर्थः ॥ ४ ॥ उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाह
खलियरस य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं । तेणं पडिकमणेणं तेसिंपि य कीरए सोही ॥ ५ ॥ चरणाइयाइयाणं जहकमं वणतिगिच्छरूवेणं । पडिकमणासुद्धा सोही तह काउसग्गेणं ॥ ६ ॥
स्खलितस्य - व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकार संजातापराधस्य तथा 'तेसि'न्ति तेषां ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धान विपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना - सूत्रोक्तप्रकारेण 'जं निंदणाई' इति यन्निन्दनं निन्दना- दुष्टं मयैतत् कृतमिति, आदिशब्दाद्गर्ह्रादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकार| स्खलितस्य यन्निन्दनादिकरणं तस्माद्दोषजातान्निवर्त्तनं तत्प्रतिक्रमणमुच्यते इति शेषः, प्रतीपं क्रमणं प्रतिक्रमणं इति व्युत्पत्तिः, अतः कारणात्तेन प्रतिक्रमणेन 'तेसिं पिय'त्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते विशोधिः- निर्मलतेति, 'चरणाइय'त्ति चरणं चारित्रं अतिगच्छन्ति-अतिक्रामन्तीति चरणातिगाः, अतिचारा इति दृश्यं, ते आदौ येषां ते चरणातिगादिकाः सर्वेऽप्यतिचारास्तेषां चरणातिगादिकानां कथंभूतानां ? - प्रतिक्रमणेन - प्रागुक्तेनाशुद्धानामर्द्धशुद्धानां वा शुद्धिस्तथैव प्रागुक्तप्रकारेण क्रियते, केन ? - कायोत्सर्गेण, किं
For Pale & Pemonal Use Only
ज्ञानदर्शनचारित्राचारयोः विशेष विशुद्धिरुप प्रतिक्रमण कायोत्सर्गाभ्याम् परिभाषा
~ 153 ~
jainelibrary.g