________________
आगम
(४३)
प्रत
सूत्रांक
[२१५
-२४३]
दीप
अनुक्रम
[१६८०
-१७०८]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) अध्ययनं [ ३६ ], मूलं [--] / गाथा ||२१५ - २४३ || निर्युक्ति: [ ५५६...], भाष्यं [१५...]
उत्तराध्य.
स्यापि सागरोपममेव, उक्तं हि – “चमरबलि सारमहियं" "सेसाणं'ति, जघन्येन दशवर्षसहस्राणि प्रमाणमस्या दशवर्षसहस्रिका, इयमपि सामान्योक्तावपि किल्विषिकाणामेव स्थितिः, स्थितिप्रभावादीनां देवेषु सहैव हासादिति, बृहद्वृत्तिः उत्तरत्रापि भावनीयम् । तथा पल्योपमं वर्षलक्षाधिकमिति ज्योतिषामुत्कृष्टस्थित्यभिधानं चन्द्रापेक्षं, सूर्यस्य तु ||७०४ || ६ वर्षसहस्राधिकं पल्योपममायुः, प्रहाणां तदेव अ (न) तिरिक्तं, नक्षत्राणां तस्यैवार्द्ध, तारकाणां तचतुर्भागः तथा परयोपमाष्टभागो ज्योतिष्षु जघन्यस्थितिरित्यपि तारकापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव जघन्यस्थितित्वात्, यत उक्तं 'चतुर्भागः शेषाणा' मिति (तत्त्वा-अ० ४ सू० ५३) । इह च सर्वत्रोक्तरूपयोरुत्कृष्टजघन्यस्थित्योरपान्तरालब|र्त्तिनी मध्यमा स्थितिरिति द्रष्टव्यम् । तथा 'प्रथमे' इति प्रक्रमाद् ग्रैवेयकेऽधस्तनाधस्तने, एवं द्वितीयादिष्वपि ग्रैवेयक इति सम्बन्धनीयम् । अविद्यमानं जघन्यमिति - जघन्यत्वमस्यामित्यजघन्या तथा अविद्यमानमुत्कृष्टमित्युत्कृष्टत्वमस्यामित्यनुत्कृष्टा अजघन्या चासावनुत्कृष्टा चाजघन्यानुत्कृष्टा, मकारोऽलाक्षणिकः, महच तदायुः स्थित्याद्यपेक्षया विमानं च महाविमानं तच तत्सर्वे — निरवशेषा अर्थ्यमानत्वादर्था: --- अनुत्तरसुखादयो यस्मिंस्त (तथा तञ्च तत्सर्वार्थं च महाविमानसवर्थ तस्मिन् स्थितिरिति सर्वत्रायुः स्थितिरेव, काय स्थितित्वाभिधाने तत्रानन्तरमनुत्पत्तिरेवेत्यभिप्राय इति सप्तविंशतिसूत्रार्थः ॥
१ चमरवल्योः सागरोपममधिकं (च) शेषाणां
Education intemational
For Funny
जीवाजीव
विभक्ति०
३६
~ 442~
॥७०४ ॥
wrp
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः