________________
आगम
(४३)
प्रत
सूत्रांक
[१६९
१९२]
दीप
अनुक्रम
[१६३४
-१६५७]
[भाग-३७] “उत्तराध्ययनानि” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) अध्ययनं [ ३६ ], मूलं [--] / गाथा ||१६९ - १९२||
निर्युक्तिः [ ५५६...], भाष्यं [ १५...]
इति जलचर भेदानाह-- 'मत्स्याः' मीनाः 'कच्छपाः' कूर्माः गृहन्तीति ग्राहाः - जलचरविशेषा मकराः सुमारा अपि तद्विशेषा एव । 'लोएगदे से' त्यादिसूत्राणि षट् क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्यानवान्तम् । स्थलचरभेदानाह-परि-समन्तात्सर्पन्ति गच्छन्तीति परिसर्पाः, एकखुरादयश्च हयादिप्रभृतिभिर्यथाक्रमं योज्यन्ते, तत एकः खुरः-- चरणे येषामधोवर्त्यस्थिविशेषो येषां ते एकखुराः- दयादयः एवं 'द्विखुरा:' गवादयो गण्डी- पद्मकर्णिका तद्वद्वृत्ततया पदानि येषां ते गण्डीपादाः - गजादयः 'सणम्फ'ति सूत्रत्वात्सह नखैःनखरात्मकैर्वर्त्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदाः - सिंहादयः । 'भुओरगपरिसप्पा यत्ति | परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजाः - शरीरावयवविशेषास्तैः परिसर्पन्तीति भुजपरिसर्पाः, उरो वक्षस्तेन परिसर्पन्तीत्युरः परिसर्पाः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः - सर्पस्तदादय इति यथाक्रमं योगः, एते च 'एकैके' इति प्रत्येकम् 'अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादिभेदतः । पल्योपमानि तु त्रीण्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन-उक्तरूपेण, पल्योपमायुषो हि ते न पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोयायुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि यावत् पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तर भवान्तरासम्भवात् उक्तं हि - "सत्तः भवा उ तिरिमणुगति, अत एतावत एवाधिकस्य १ सप्ताष्ट्रभवान् तिर्यग्मनुष्याः
Education intimational
For Fans Only
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 431~