________________
आगम
(४३)
प्रत
सूत्रांक
[६०]
दीप
अनुक्रम
[१५२४]
उत्तराध्य. बृहद्वृत्तिः
॥ ६८५||
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [३६], मूलं [--] / गाथा ||६०|| निर्युक्ति: [५५६...], भाष्यं [१५...]
"गंतूण जोयणं तु परिहायइ अंगुलपुडुत्तं" ति । अत्र च केचित्पठन्ति - "अज्जुणसुवन्नगमई सा पुढवी निम्मला सहावेणं । उत्ताणगछत्तगसंठिया य भणिया जिणवरेहिं ॥ १ ॥" तत्र चार्जुनं शुक्लं तथ तत्सुवर्णकं चार्जुनसुवर्णकं तेन निर्वृत्ताऽर्जुन सुवर्णकमयी 'सा' इतीपत्प्राग्भारा 'निर्मला' खच्छा, किमुपाधिवशतः १ इत्याह-'खभावेन' स्वरूपेण उत्तानकम् ऊर्द्धमुखं यच्छत्रमेव छत्रकं तत्संस्थिता च 'भणिता' उक्ता जिनवरैः, प्राकू सामान्यतश्छत्रसंस्थितेत्युकमिह तूत्तानत्वं तद्विशेष उच्यत इति न पौनरुक्त्यम् । शङ्खाङ्ककुन्दानि प्रतीतानि तत्सङ्काशा - वर्णतस्तादृशी अत एव 'पंडुरे 'ति 'पाण्डुरा' श्वेता 'निर्मला' निष्कलङ्का 'शुभा' अत्यन्तकल्याणावहा 'सुखा वा' सुखहेतुत्वेनेति सार्द्धसूत्रत्रयार्थः ॥ यदीदृशी सा पृथ्वी ततः किमित्याह
सीआए जोअणे तत्तो, लोयंतो उ विवाहिओ ॥ ६० ॥
'सीतायाः' सीताभिधानायाः पृथिव्या उपरीति शेषः, योजने 'ततः' इति तस्था उक्तरूपायाः 'लोकान्तः ' लोकपर्यन्तः 'तुः' पूरणे व्याख्यात इति सूत्रार्द्धार्थः ॥ ननु यदि योजने लोकान्तस्तत्किं तत्र सर्वत्र सिद्धास्तिष्ठन्त्युता
| न्यथा ? इत्याह-
Education intemational
१ गत्वा योजनं तु परिहीयतेऽङ्गुलपृथक्त्वं
For False
जीवाजीव
विभक्ति०
३६
~404~
||६८५||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः