SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३], मूलं [-] / गाथा ||२८-३०|| नियुक्ति: [४५४...] (४३) प्रत सूत्रांक ||२८-३०|| प्रायोपात्तीद्वाचकभेदादेव धर्मस्य वैविध्य, न तु वस्तुभेदात्, यद्वाचकभेदेऽपि वस्तुतो व्रतपञ्चकस्यैवात्र विवक्षितत्वात् , हा प्रसातशेहायजिनाभिधानमिति सूत्रत्रयार्थः । इत्थं गौतमेनोक्ते केशिराह4 साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मझ, तं मे कहसु गोयमा! ॥२८॥ अचेलओ अ जो धम्मो, जो इमो संतरुत्तरो। देसिओ बद्धमाणेणं, पासेण य महामुणी ॥ २९ ॥ एगकप-2 विनाणं, विसेसे किं नु कारणं ? । लिंगे दुविहे मेहावी !, कहं विपञ्चओ न ते ? ॥ ३०॥ A 'साधु'त्ति साधुः-शोभना गौतम ! 'प्रज्ञा' बुद्धिः 'ते' तक, यतः 'छिन्नः' अपनीतस्त्वयेति गम्यते, मम 'संशयः सन्देहः 'इमोत्ति अयम्-उक्तरूपः, पठन्ति च-'पण्णाए'त्ति, तत्र च साधु यथा भवत्येवं गौतम ! 'प्रज्ञया' बुद्धया । छिन्नो मे संशयोऽयं, त्वयेति व्याख्येयं, विनेयापेक्षं चेत्थमभिधानं, न तु तस्य मतिश्रुतावधिज्ञानत्रयसमन्वितस्यैवंविधद संशयसम्भव इति सर्वत्र भावनीयम् । 'अन्योऽपि' वक्ष्यमाणः संशयो मम तं मे कथय गौतम!, तद्विषयमप्यर्थे । यथावत्प्रतिपादयेति भावः । अत्र च द्वितीयं द्वारं 'लिंग'त्ति, लिङ्गयते-गम्यतेऽनेनायं व्रतीति लिङ्ग-वर्षाकल्पादिरूपो वेषः, तदधिकृत्याह-'अचेलओं' इत्यादि, पागू व्याख्यातमेव, नवरं 'महामुनि'त्ति महामुने !, पठन्ति च, महाजसति महायशाः, लिङ्गे द्विविधे-अचेलकतया विविधवस्त्रधारकतया च द्विभेद इति सूत्रत्रयार्थः ॥ एवं केशिनाऽभिहिते गौतमवचोऽभिधायकं सूत्रत्रयम् दीप अनुक्रम [८७४-८७६] For ParaTREPWAuOnly पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~40
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy