SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-1 / गाथा ||४९-५०|| नियुक्ति : [५५६...], भाष्यं [१५...] जीवाजीव प्रत विभक्ति सूत्रांक [४९-५०] उत्तराध्य. ॥ यतो न तनिषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्धषुपदेशः, यदुक्तम्-"संवरनि- जररूपो बहुप्रकारस्तपोविधिः शाखे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥१॥" यच पुरुषानभिबृहद्वृत्तिः वन्द्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षं वा!, यदि सामान्येन तदाऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किम शेषपुरुषैः । गुणाधिकपुरुषापेक्षं चेगणधरा अपि तीर्थकृद्भिर्नाभिवन्धत द इति तेषामप्यपकृष्यमाणत्वम् , अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वाच्चाईद्देशनाया असिद्ध मेव तदनभिवन्द्यत्वं गणधराणाम्, एवं तर्हि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावाच स्त्रीणामहद्भिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ?, अथ स्मारणायकर्तृत्वेन, एवं सति समानेऽपि दरबत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्थान शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात् , न चैत दागमिक, चण्डरुद्राद्याचार्यशिष्याणामागमे निःश्रेयसश्रवणात्, अथामहर्दिकत्वेन स्त्रीणां पुरुषम्योऽपकृष्यमाणत्वं, तथा सति प्रष्टच्योऽसि-किमाध्यात्मिकीमृद्धिमाश्रित्य बाखां वा?, तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात, नापि वायाम् , एवं हि महत्या तीर्थकरादिलक्षम्या गणधरादयचक्रधरादिलक्ष्म्याश्चेतरक्ष(रऽक्ष)त्रियादयो न भाजनमिति तेषामप्यमहर्दिकत्वेनापकृष्यमाणत्वान्मुक्तिकारणवैकल्यप्रसङ्गः, यदपि मायादिप्रकर्षवत्वेनेत्युच्यते, तदप्यसत् , तस्योभयोरपि तुल्यत्त्वेन दर्शनादागमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि दीप अनुक्रम [१५१३-१५१४] ॥१८॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~394
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy