________________
आगम
(४३)
प्रत
सूत्रांक
[२-२१]
दीप
अनुक्रम
[१४४५
-१४६४]
उत्तराध्य.
बृहद्वृत्तिः
॥ ६७० ॥
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः)
अध्ययनं [ ३६ ],
मूलं [ - ] / गाथा ||२१...||
निर्युक्ति: [५४९-५५६], भाष्यं [ १-१५]
सिद्धाणमसिद्धाण य अज्जीवाणं तु होइ दुविहा उ । रूवीणमरूवीण य विभासिया जहा सुत्ते ॥५५५॥ भावमि विभत्ती खल्लु नायवा छविहंमि भावमि । अहिगारो इत्थं पुण दवविभत्तीइ अज्झयणे ॥५५६॥ निक्खेवेत्यादि गाथा अष्ट व्याख्यातप्राया एव, नवरं तद्व्यतिरिक्तश्च 'जीवद्रव्यं' द्रव्यजीव उच्यत इति प्रक्रमः 'तुः ' विशेषद्योतकः, स चायं विशेष: यथा न कदाचित्तत्पर्यायवियुक्तं द्रव्यं तथाऽपि च यदा तद्वियुक्ततया विवक्ष्यते तदा तद्द्रव्यप्राधान्यतो द्रव्यजीवः, भावे तु दशविधः 'खलुः' अवधारणे दशविध एव परिणामः कर्मक्षयोपशमोदयापेक्षपरिणतिरूपो जीवद्रव्यस्य सम्बन्धी जीवादनन्यत्वेन जीवतया विवक्षितो जीव इति प्रक्रमः, तत्र च क्षायोपशमिकाः षट् पञ्चेन्द्रियाणि षष्ठं मनः औदयिकाः क्रोधादयश्चत्वारो मीलिता दश भवन्ति । एवमजीवनिक्षेपेऽपि यदा पुद्गलद्रव्यमजीवरूपं सकलगुणपर्यायविकलतया कल्प्यते तदा तव्यतिरिक्तो द्रव्याजीवः, भावे चाजीवद्रव्यस्यपुद्गलस्य दशविधः परिणामोऽजीव इति प्रक्रमः, स च शब्दादयः पञ्च शुभाशुभतया भेदेन विवक्षिताः, तथा च सम्प्र| दायः - शब्द स्पर्शरस रूपगन्धाः शुभाश्वाशुभाचे 'ति । तथा विभक्तिनिक्षेपे सति विभक्तिर्भवेत् 'द्विविधा' द्विप्रकारा, ३ ॥ ६७० ॥ | द्वैविध्यं चास्याः सम्बन्धिभेदादेवेति तमाह-जीवानामजीवानां च, कोऽर्थः ? - जीवविभक्तिः - जीवानां विभागेनाबस्थापनम् एवमजीवविभक्तिश्व, उत्तरत्राप्येवमेव सम्बन्धिभेदाद्वेदो व्याख्येयः, 'तर्हि'ति वचनव्यत्ययात् 'तयोः'
For Party
जीवाजीव
विभक्ति०
३६
~374~
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः