________________
आगम
(४३)
प्रत
सूत्रांक
[२-२१]
दीप
अनुक्रम
[१४४५
-१४६४]
उत्तराध्य.
बृहद्वृत्तिः
॥ ६६८ ॥
[भाग-३७] “उत्तराध्ययनानि” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||२-२१|| निर्युक्तिः [५४८...]
अध्ययनं [३५],
झगिति तत्करणे बहुतरदोषसम्भवात्, तथा चागमः- “ देईम्मि असंलिहिए सहसा धाऊहि विजमाणाहिं । * जायइ अट्टज्झाणं सरीरिणो चरमकालमि ॥ १ ॥ कदा १--' कालधर्मे' आयुःक्षयलक्षणे मृत्युखभावे 'उपस्थिते' प्रत्यासन्नीभूते, तथा 'त्यक्त्वा' अपहाय 'माणुसं'ति मानुषीं मनुष्यसम्बन्धिनीं 'बुन्दि' शरीरं 'प्रभुः' वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् 'दुक्खे'त्ति 'दुःखैः' शारीरमानसैः 'विमुच्यते' विशेषेण त्यज्यते, तन्निबन्धनकर्मापगमत इति भावः । कीदृशः सन् ? इत्याह- 'निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याद्यहङ्काररहितः, ईदृक्षः कुतः १, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रवः' कर्माश्रवरहितो मिध्यात्वादितद्धेत्वभावात् संप्राप्तः 'केवलज्ञानम्' उक्तरूपं 'शाश्वत' कदाचिदव्यवच्छेदात् 'परिनिर्वृतः' अस्वास्थ्य हेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्रभावार्थः । 'इति' परिसमाप्तौ त्रवीमीति पूर्ववत् । गतोऽनुगमो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायामनगार मार्गगतिनामकं पञ्चत्रिंशत्तममध्ययनं समाप्तम् ॥ ३५ ॥ इत्युत्तराध्ययनश्रुतस्कन्धे श्रीशान्त्याचार्यविहिता शिष्यहितानाम्नी अनगारमार्गगतिनामक पञ्चत्रिंशत्तमाध्ययनवृत्तिः
१ देहेऽसंलिखिते सहसा धातुपु श्रीयमाणेषु । जायते आर्त्तध्यानं शरीरिणश्वरमसमये ॥ १ ॥
EducatinItamatond
For Purina Pts Use Only
अनगारगतिमार्गा
ध्य. ३५
~370~
॥६६८||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः अत्र अध्ययनं - ३५ परिसमाप्तं