________________
आगम
(४३)
प्रत सूत्रांक
[२१
-३२]
दीप
अनुक्रम [१४०३
-१४१४]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||२१-३२||
अध्ययनं [३४],
निर्युक्ति: [५४५...]
अवयं चोभयत्र पापं तद्भीरुः 'हितैषकः' मुक्तिगवेषकः, पाठान्तरतो हिताशयो वा परोपकारचेताः, पठ्यते च'अणासवे 'ति तत्र च न विद्यन्ते आश्रवा - हिंसादयो यस्यासावना श्रवः, एतद्योगसमायुक्तस्तेजोलेश्यां तु परिणमेत् ॥ प्रतनू - अतीवाल्पी क्रोधमानौ यस्य स तथा चः पूरणे, माया लोभव उक्तरूपः प्रतनुको यस्येति शेषः, अत एवं प्रशान्तं - प्रकर्षेणोपशमवचित्तमस्येति प्रशान्तचित्तः, दान्तः - अहितप्रवृत्तिनिवारणतो वशीकृत आत्मा येन स तथा, योगवानुपधानवानिति च प्राग्वत्, तथा 'प्रतनुवादी' खल्पभाषक श्वशब्दो भिन्नक्रमो योक्ष्यते, 'उपशान्तः' अनुद्भटतयोपशान्ताकृतिः 'जितेन्द्रियश्च' वशीकृताक्षः, एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमेत् ॥ 'आर्त्तराद्रे' उक्तरूपे ध्याने 'वर्जयित्वा' परिहत्य 'धर्मशुक्ले' प्रागुक्ते एव शुभध्याने 'साधयेत्' सतताभ्यासतो निष्पादयेत् यः कीदृशः सन् ? इत्याह-प्रशान्तचित्तो दान्तात्मेति च प्राग्वत् पाठान्तरतश्च ध्यायति यो विनीतविनयो दान्तः 'समितः' समितिमान् 'गुप्तश्च' निरुद्धसमस्तव्यापारः 'गुप्तिभिः' मनोगुत्यादिभिः, तृतीयार्थे सप्तमी, स च 'सरागः ' अक्षीणानुपशान्तकपायतया वीतरागो वा ततोऽन्य उपशान्तः पाठान्तरतः 'शुद्धयोगो वा' निर्दोषव्यापारो जितेन्द्रियः प्राग्वत् स एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमति, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्तत्यं पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं च भावनीयं, विशिष्टलेश्या वाऽपेक्ष्यैवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचार आशङ्कनीय इति द्वादशसूत्रार्थः ॥ सम्प्रति स्थानद्वारमाह
Education national
For Patenty
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~347~